Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
एतदेव स्पष्टयति- 'नहप्पतरयं तओ अत्थि' । न हि यस्मात् ततः-अधिकृतात्परमाणोरन्यदल्पतरमस्ति, ततस्तस्य परमाणुत्वं न व्याहन्यत इति ॥७११।।
पच्चासत्ती य मिहो तेसिं धम्मंतराणुवेधातो । धम्मंतरभावातो गहणं इय समुदियाणं तु ॥७१२॥ ( प्रत्यासतिश्च मिथस्तेषां धर्मान्तरानुवेधात् । धर्मान्तरभावाद् ग्रहणमिति समुदितानां तु ॥७१२॥)
प्रत्यासत्तिश्च मिथः-परस्परं तेषां भवति, धर्मान्तरानुवेधात्-इन्द्रियग्राह्यतालक्षणस्वभावान्तरानुवेधात्, न तु स्वस्वरूपावस्थितानामेव, ततो धर्मान्तरानुवेधभावादभिहितलक्षणात् समुदितानां सतां इति-एवं यथा-सकलजनैरनुभूयते तथा ग्रहणमुपपद्यत एव । उक्तं च - "परमाणूनामेवायं स्वभावो येन तत्तकालाद्यपेक्षया तत्र तत्र देशे तैस्तैस्तदन्यपरमाणुभिः सह परस्परं नैरन्तर्येण घटादिलक्षणसंस्थानवता(वन्तो)ऽवतिष्ठन्ते बादरीभवन्ति च, बादरत्वं च समुदितानामिन्द्रियग्राह्यस्वभावतेति" । एतेन यदुक्तं प्राक्-'परमाणवो न इंदियगम्मा' इत्यादि तत्प्रत्युक्तमवसेयं तथासमुदितानां चक्षुरिन्द्रियग्राह्यत्वाभिधानात् ॥ यदप्युक्तम्-अविगानाभावान्न ‘योगिज्ञानमपि युक्तिक्षममिति' तदप्ययुक्तम्, तस्य सद्भूतवस्तुतत्त्वपरिच्छेदप्रवणत्वात् । बाह्यस्य चार्थस्य तत्साधकप्रमाणभावतो बाधकाभावाच्च सद्भूतवस्तुरूपत्वात् । तत्र तत्साधकं प्रमाणं ज्ञानाकारवैचित्र्यान्यथानुपपत्तिलक्षणं प्रागुपन्यस्तं, वक्ष्यति च- 'बाधकाभावश्चेदानीमेवोपदर्यमानोऽस्तीति' । यदप्याशङ्कितम्-'ते चेव कज्जगम्मा' इत्यादि तदपि न समीचीनमेव, यतो न खल्विह पूर्वपरिणामिकारणमन्तरेण किंचिदपि कार्यमुपजायते, "न तथाभाविनं हेतुमन्तरेणोपजायते किंचिदिति' वचनात्, अन्यथा खरविषाणास्याप्युत्पत्तिप्रसङ्गादित्युक्तमनेकधा प्राक् । ततो विशिष्ट संस्थानोपेतपरमाणुनैरन्तर्यात्मकघटादिकार्यदर्शनात् प्रत्येकावस्थाभाविनोऽपि तत्कारणभूताः परमाणवोऽनुमीयन्त एव । यदपि 'कह दीसइत्ति वच्च' मित्याद्यभिहितं तदप्येकान्तेनापेशलमेव, विषयग्रहणपरिणामलक्षणस्यैव प्रतिप्राणि प्रसिद्धस्याकारस्य ज्ञानेऽभ्युपगमात्, न चैतदभ्युपगममात्रं किंतु वस्तुतत्त्वमेव, यदाहुः श्रीमल्लवादिनः-"न विषयग्रहणपरिणामादृतेऽपरः संवेदने विषयप्रतिभासो युक्तो युक्त्ययोगादिति" । ततो नार्थस्यानाकारभावो नापि ज्ञानार्थयोरैक्यं, न चार्थस्याग्रहणं येन 'तग्गहणाभावाओ तुल्लत्तं गम्मई किह णु' इत्यादिदोषप्रसक्तिर्भवेत् । न च तन्निराकारमभ्युपगम्यते येन तत्पक्षभावि प्रतिकर्मव्यवस्थानुपपत्तिलक्षणो दोषः स्याद् विषयग्रहणपरिणामलक्षणस्याकारस्याभ्युपगमादिति सर्व सुस्थमेव । एतच्च प्रस्तावानुरोधादिहोक्तमन्यथा पुनरेतदाचार्यः स्वयमेव 'ता विसयगहणपरिणामओ य सागारया हवइ तस्सेत्यादिना प्रपञ्चतोऽभिधायस्यतीति ॥७१२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366