Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 354
________________ धर्मसङ्ग्रहणी परिशिष्ट - २ (रज्जौ सर्पज्ञानमेवमादि यदुक्तमेतदपि मोहः । बाह्यार्थाभावे यद् रज्जुः सर्पः कुत एतद् ? ॥७२०॥) यदपि प्रागुपसंहरता ‘रज्जुम्मि सप्पनाण'मित्याधुक्तमेतदपि विचार्यमाणं परेषां मोह एवमोहसूचकमेव । कुत इत्याह-'बज्झत्थेत्यादि' । यत्-यस्माद्बाह्यार्थाभावे सति 'रज्जुरियमयं सर्प' इत्येतदपि कुतः ? नैव कुतश्चिदित्यर्थः । ततो बाह्यार्थानभ्युपगमे यदेतदुच्यते तत्केवलं मोह इति ॥७२०॥ अत्र परस्याभिप्रायमाशङ्कमान आह - सिय भंतिमेत्तमेयं वत्तव्वं को इमीए हेउत्ति ? । निरहेउगा ण जुत्ता सइभावाभावदोसाओ ॥७२१॥ (स्याद् भ्रान्तिमात्रमेतद् वक्तव्यं कोऽस्या हेतुरिति ? । निर्हेतुका न युक्ता, सदा भावाभावप्रसङ्गात् ॥७२१॥) स्यादेतत्, ‘रज्जुरियमयं सर्प' इति यद्विज्ञानं तत् भ्रान्तिमात्रं-न तात्त्विकं, रज्ज्वादेर्बाह्यार्थस्याभावात्, ततो न कश्चिन्नो दोषः, तात्त्विकत्वाभ्युपगमे हि दोषो भवति, नान्यथा । अत्राहननु तर्हि वक्तव्यं कोऽस्या-अनन्तरोदिताया भ्रान्तेर्हेतुः ? न खलु सा निर्हेतुका युक्ता, सदा भावाभावप्रसङ्गात् "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणादिति" न्यायात् ॥७२१।। अह तु अविज्जाहेतू सावि ण णाणा पुढो तुहं काई। तंपि इह हेउ नाणं तओ विसेसो य पडिभणिओ ॥७२२॥ (अथ तु अविद्या हेतुः, सापि न ज्ञानात् पृथक् तव काचित् । तदपि इह हेतुर्ज्ञानं ततो विशेषश्च प्रतिभणितः ।।७२२॥) अथ पुनरुच्येत-अविद्या नाम पूर्वोक्ताया भ्रान्तेर्हेतुरिति । तदप्ययुक्तम्, यतः साप्यविद्या तव मतेन न ज्ञानात्पृथग्भूता काचिदस्ति, बाह्यार्थसिद्धिप्रसङ्गात्, किंतु ज्ञानमेव, तदपि च ज्ञानमिह हेतुः-हेतुभूतमुपादानभूतं । 'ततो विसेसो य'त्ति । ततो-ज्ञानात्सहकारिभूतात् यो विशेष उपादानहेतोः सोऽपि आलयगया अणेगा सत्तीओ पागसंपउत्ताओ' इत्यादिना प्रबन्धेन प्राक्प्रतिभणितोनिराकृत इति नेह पुनरुच्यते ।।७२२।। अत्रैवाभ्युच्चयेन दूषणमाह - किंचेह सच्चपुव्वा दिट्ठा भंती मरीयिमादीसु । तं पुण किमेत्थ विन्नाणमेत्तमेतंपि पडिसिद्धं ॥७२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366