Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
न चावयवी जैनेरेकान्तेन स्वावयवेभ्यो विभिन्न इष्यते, किंतु तेभ्यः कथंचिदनन्य:तदेकत्वपरिणामलक्षणस्तेन कारणेन ये दोषास्तदनुगता - अवयविपक्षानुगताः प्रागभिहितास्ते सर्वेऽपि न युक्ताः, परपरिकल्पितादवयविनोऽस्य सर्वथा जात्यन्तरत्वात् । तथाहि - नात्र देशकार्त्स्यवृत्त्याऽयोगलक्षणदूषणमुपढौकते, तस्यावयवेभ्योऽर्थान्तरभूते एवावयविनि संभवात् यदप्युक्तम्-'जइ तावऽभिन्नदेसो भिन्ना दुपएसिए न अणु' इत्यादि, तदपि न नो बाधायै, तयोरेव परमाण्वोस्तथारूपविचित्रस्वभावतया तथाविधैकत्वपरिणामभावाभ्युपगमेन कथंचित् सप्रदेशत्वादेरपीष्टत्वात् । यच्च 'सिय अवयवी अमुत्तो' इत्याद्यभिहितं तदपि यथोक्तेऽवयविनि सर्वथाऽनवकाशमेव । यदप्युक्तम्- 'न च स्वारम्भकावयवेभ्योऽस्य जन्मोपपद्यते' इत्यादि, तदप्यपरेषामेव दोषाय, नास्माकं, परमाणूनामपि तथारूपचित्रस्वभावतया तथातथापरिणामित्वाभ्युपगमात्, तथाविधैकत्वपरिणामस्य चावयवित्वेनाभ्युपगमात् । न चैवं तुलानतिविशेषाग्रहणमपि दोषकृत्, द्रव्यान्तरभूतस्यावयविनोऽनभ्युपगमात् । योऽपि स्वरूपविकारज्ञानविषयत्वार्थान्तरसंसर्गयुगपद्विधिप्रतिषेधविषयश्चतुर्द्धाविरुद्धधर्मसंसर्गः कम्पाकम्पादिरुक्तः, सोऽपि न नो बाधायै, यतः परमाणूनां तथा चित्रस्वभावतया यः कथंचिदेकत्वपरिणामः सोऽवयवी, एकत्वपरिणामश्च नाम समानपरिणामो, नचासावेकान्तेन तेषामभेदे भवति तत्कथं विरुद्धधर्मसंसर्गे दोषाय ? एकस्य हि स विरुध्यते नानेकेषाम्, तन्न पूर्वोक्तदोषाणामिह मनागप्यवकाशः ॥७१८॥
तथा चाह
एगाणेगसरूपं वत्थु च्चिय दव्वपज्जवसहावं ।
जह चेव फलनिमित्तं तह भणियं जिणवरिंदेहिं ॥७१९ ॥
-
(एकानेकस्वरूपं वस्तु एव द्रव्यपर्यायस्वभावम् ।
यथैव फलनिमित्तं तथा भणितं जिनवरेन्द्रैः ॥७१९॥)
रज्जुम्मि सप्पणांणं एमादि जमुत्तमेयवि मोहो । बज्झत्थाभावे रज्जू सप्पो कुतो एयं ? ||७२०॥
Jain Education International
‘चिये’ति निपातोऽवधारणार्थः, स च भिन्नक्रमः । वस्तु द्रव्यपर्यायस्वभावम्-अनुगमव्यावृत्तिस्वभावमेकानेकस्वरूपमेव-स् - साधारणासाधारणस्वरूपमेव सत् यथैव फलनिमित्तं भवतिविशिष्टपरिदृश्यमानवत्तदर्थक्रियासमूहकारि भवति तथैव भणितं जिनवरेन्द्रैः-क्षीणसकलरागादिदोषजालैस्तीर्थंकरैः, तत्कथमिहानन्तरोक्ततुच्छशठोक्तीनामवकाश: ?, तस्मात् घटत बाह्योऽर्थ इति स्थितम् ॥७१९॥
३७
For Personal & Private Use Only
o
www.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366