Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 361
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार माणं किमत्थ तुज्झं? पच्चक्खं ताव ण घडई चेव । अविगप्पगं जमिढे अगाहगं तह य अन्नस्स ॥७४०॥ (मानं किमत्र तव ? प्रत्यक्षं तावन्न घटत एव । अविकल्पकं यदिष्टमग्राहकं तथा चान्यस्य ॥७४०॥) 'अत्र' अनन्तराभिहितकल्पनायां 'मानं' प्रमाणं तव किं ? प्रत्यक्षमनुमानं वा ? तत्र प्रत्यक्षं तावन्न घटते, यत्-यस्मात्तत्प्रत्यक्षमविकल्पकं-कल्पनापोढमिष्टम्, 'तद्यदपि गृह्णाति तन्न निश्चयेन, किंतु तत्प्रतिभासेने'तिवचनात्, ततो न तद्विवक्षितार्थनिश्चायकम् । अथोच्येत-मा घटिष्ट प्रत्यक्षमविकल्पकं सविकल्पकं घटिष्यत एवेति । तदप्ययुक्तम्, तस्याप्रमाणत्वात्, भवतु वा प्रमाणं तथापि न तत् अन्यस्य-आत्मव्यतिरिक्तस्य ग्राहकम् । तथा चाह-आगाहगं तह य अन्नस्स' सर्वस्यापि ज्ञानस्य स्वाकारमात्रवेदनमिष्टं, तथाऽ(मिष्टतयाऽ पाठा.)भ्युपगमात्, अन्यथा अर्थस्यापि तद्वद्ग्रहणप्रसङ्गात् ॥७४०॥ अणुमाणंपि हु तप्पुव्वगं ति णो गाहगं अहिगतस्स । णय अन्नमत्थि माणं एतममाणं कहं हवतु ? ॥७४१॥ ( अनुमानमपि हु तत्पूर्वकमिति नो ग्राहकमधिकृतस्य । न चान्यदस्ति मानमेतमानं कथं भवतु ? ॥७४१॥) अनुमानमपि यस्मात् तत्पूर्वकम् इति तस्मान्न ग्राहकमधिकृतस्य-कल्प्यमानस्यार्थस्य, न चान्यत्तव मते किंचिदस्ति प्रमाणम्"प्रत्यक्षमनुमानं च प्रमाणे" इति वचनात् । तत एतत् पूर्वोक्तं कल्प्यमानमप्रमाणं कथं समीचीनं भवेत् ? नैव भवेदितिभावः । प्रमाणमन्तरेण प्रमेयव्यवस्थाया अयोगात् अन्यथा सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्त्या अतिप्रसङ्गात् ॥७४१॥ उपसंहारमाह - बज्झत्थाभावातो भत्ती एसा इमो तु देहोत्ति । विन्नाणमेत्तमेव उ परमत्थु (थो) विहाडिओ एवं ॥७४२॥ (बाह्यार्थाभावाद् भक्तिरेषा अयं तु देह इति । विज्ञानमात्रमेव तु परमार्थो विघटित एवम् ॥७४२॥) यदुक्तम्-'विज्ञानमात्रमेव परमार्थो नतु बाह्योर्थः, ततस्तदभावादयं देह इति भक्तिरेषाकल्पनामात्रमिदमिति', तत्र स विज्ञानमात्रलक्षणः परमार्थः ‘एवं'प्रदर्शितेन न्यायेन विघटितः, तस्मादस्ति बाह्यो देहस्तद्भावे च तदनुग्रहोपधातनिमित्ततया आत्मनः सुखदुःखान्यथानुपपत्त्या Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366