Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
धर्मसङ्ग्रहणी
परिशिष्ट - २ तेन मूर्तिमताऽपि सह संयोगोऽभ्युपगन्तव्यः, तथा च सति कर्मणापि मूर्तिमता सह भविष्यतीति सिद्धं नः कर्म मूतिमत् ॥७४२।।
एतदेवोपसंहरन्नाह - तम्हा मुत्तं कम्मं सिद्धमिदं जुत्तिओ इहं ताव । परमत्थपेच्छगेहि जिणवयणाओ य विन्नेयं ॥७४३॥ (तस्मान्मूर्त कम सिद्धमिदं युक्तित इह तावत् । परमार्थप्रेक्षकैर्जिनवचनतश्च विज्ञेयम् ॥७४३॥)
यत एवं तस्मादिदं कर्म तावन्मूर्त-मूर्तिमत् सिद्धं-प्रतिष्ठामुपगतं युक्तितोऽनन्तराभिहितायाः सकाशात् । परमार्थप्रेक्षकैः पुनर्जिनवचनत एव, चोऽवधारणे, परमार्थतो विज्ञेयम् । अर्वाग्दर्शिनः केवलज्ञानावसेयभावस्वभावसम्यक्परिज्ञानाभावात्, “नो केवलिए भावे जं छउमत्थो मुणइ सम्ममिति" (छा० नो कैवलिकान् भावान् यत् छद्मस्थो जानाति सम्यगिति) पूर्वसूरिवचनात् ॥७४३॥
प्रादेशिकेभ्यः परशासनेभ्यः, पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो, विडम्बनेयं हरिमण्डलस्य ॥
-अयोगव्यवच्छेदुद्वात्रिंशिका।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366