Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
किं च इमोऽवयवाणं अभिन्नदेसो व्व होज्ज इतरो वा ? । जति तावऽभिन्नदेसो भिन्ना दुपदेसिए ण अणू ॥६५७॥ (किञ्चायमवयवानामभिन्नदेशो वा भवेदितरो वा ? । यदि तावदभिन्नदेशो भिन्नौ द्विप्रदेशिके नाणू ॥६५७॥) एवं च अणिच्चत्तं सपदेसत्तं च पावइ अणूणं । तब्भेदासति तदभिन्नदेसताऽवयविणो जुत्ता ॥६५८॥ (एवं चानित्यत्वं सप्रदेशत्वं च प्राप्नोति अणूनाम् । तभेदासति तदभिन्नदेशताऽवयविनो युक्ता ॥६५८॥)
किंच - अयम् - अवयवी स्वारम्भकाणामवयवानामभिन्नदेशो वा भवेत् इतरो वाभिन्नदेशः ? तत्र यदि तावदभिन्नदेश इति पक्षस्ततो द्विप्रदेशिकेऽवयविनि न भिन्नौ तावणू। कुत इति चेत् ? अत आह-'तब्भेदासइ इत्यादि' उत्तरार्द्धम् । यस्मात्ताभ्याम्-अणुभ्यां सह भेदासति-भेदासत्त्वे भेदाभावे सति तदभिन्नदेशता-स्वारम्भकाणुद्वयाभिन्नदेशता अवयविनो युक्ता नान्यथा, ततो नाभिन्नदेशतायां तावणू भिन्नौ भवितुमर्हतः ॥६५७|| पूर्वार्द्धम्, एवं च सति अण्वोरवयविनः सकाशाद्भेदाभावे सति द्विप्रदेशिकावयविवद् अण्वोरपि अनित्यत्वं सप्रदेशत्वं च स्वतन्त्राभ्युपगमविरोधि प्राप्नोतीति ॥६५८॥
अत्रार्थवादिनां मतमपाकर्तुमाशङ्कमान आह - सिय अवयवी अमुत्तो जं ता तदभिन्नदेसयाए वि । आगासेण व दोसा अणिच्चमादी कुतो नूणं ? ॥६५९॥ (स्याद् अवयवी अमूर्तो यत् तत् तदभिन्नदेशतायामपि । आकाशेनेव दोषा अनित्यत्वादयः कुतो नूनम् ? ॥६५९॥)
स्यादेतत्, यत-यस्मादमूर्तोऽवयवी 'ता' तस्मात् तदभिन्नदेशतायामपि-आकाशेनेव तेनावयविना सह अभिन्नदेशतायामपि अणुद्वयस्य कुतो नूनमनित्यत्वादयो दोषाः प्राप्नुवन्ति ? नैव कुतश्चिदिति भावः ॥६५९।।
अत्राह - हंत अमुत्तत्तम्मिवि आगासस्सेव अणुवलंभो से । पावति तदभेदातो इतरस्सवि अहव उवलंभो ॥६६०॥ (हन्त ! अमूर्त्तत्वेऽपि आकाशस्येवानुपलम्भस्तस्य । प्राप्नोति तदभेदादितरस्यापि अथवा उपलम्भः ॥६६०॥)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366