Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 352
________________ २ धर्मसङ्ग्रहणी परिशिष्ट - २ अथोच्येत-न रूपादीनामिवकाशस्यापि मूर्त्तिमता द्रव्येण सह इतरेतरस्वरूपप्रवेशात्मकोऽनुवेधोऽस्ति, किंतु तदभिन्नदेशतामात्रलक्षणस्ततो नाकाशस्येव रूपादीनामदर्शनप्रसङ्गः । अत आह'मुत्तामुत्तेक्कभावो वा' इति । वाशब्दः पक्षान्तरसूचने । यदि इतरेतरप्रवेशात्मकोऽनुवेधो रूपादीनामिष्यते, तर्हि मूर्त्तद्रव्यस्यामूर्त्तानां च रूपादीनां परस्परमैक्यभावः प्राप्नोति, इतरस्येतरस्मादव्यतिरिक्तत्वात्, तत्स्वरूपवत्, ततो द्रव्यं वा केवलं भवेत् न रूपादयो, रूपादयो वा भवेयुर्न तु द्रव्यं, तथा च सति प्रतीत्यादिविरोध इति कथंचिदितरस्वरूपप्रवेशात्मकोऽनुवेध एष्टव्यो न तु सर्वात्मना, तथा च सति नामूर्ती एव रूपादयो गुणाः किंतु कथंचिदिति स्थितम् ॥७१६॥ तदेवं देशसंबन्धपक्षे दोषाभावमभिधाय सांप्रतं कात्य॑पक्षेऽपि तं भावयन्नाह - णय अणुमेत्तं जुत्तं सत्ताओ सव्वहावि संजोगे। बादरमुत्तत्ताणासभावतो उवचयविसेसा ॥७१७॥ (न च अणुमात्रं युक्तं सत्त्वात् सर्वथापि संयोगे । बादरमूर्त्तत्वानाशभावाद् उपचयविशेषात् ॥७१७॥) न च सर्वथापि-सर्वात्मनापि संयोगेऽभ्युपगम्यमाने अणुमात्रं युक्तम् । कुत इत्याहउपचयविशेषात्-उपचयविशेषभावात् । सोऽपि कथमिति चेत् ? अत आह-'बादरमुत्तत्ताणासभावओ' । अनाश इत्युत्पादोऽभिधीयते न स्थितिः, तदभावे तस्या एवाभावात्, बादरमूर्त्तत्वेन स्थूरमूर्त्तत्वेन अनाशात्-उत्पादात् तावणू सूक्ष्ममूर्त्तत्वमपहाय तथारूपचित्रस्वभावतया तथाविधैकबादरमूर्त्तत्वेनाभूतामितियावत् । कुत एतदित्थमवगम्यत इति चेत् । आह-'सत्ताउ'त्ति । सत्त्वात्, इह हि न सतः सर्वथा विनाशो नाप्यत्यन्तासत उत्पादः । यदाह-"नासतो विद्यते भावो, नाभावो विद्यते सत इति" । तद्यदि परमाणोः परमाण्वन्तरेण सह सर्वात्मना संयोगे सति अणुमात्रता भवेत्तर्हि तस्य-परमाण्वन्तरस्याभाव एवाभ्युपगतः स्यात्, न च सतः सर्वथा विनाशो भवति, तस्मात्सत्त्वादनुमीयते न सर्वात्मनापि संयोगे सत्यणुमात्रता भवति, किंतूपचयविशेष इति न कश्चिद्दोषः ॥७१७॥ अवयविपक्षे निर्दोषतामुद्भावयन्नाह - णय अवयवी विभिन्नो एगंतेणऽवयवाण जइणेहि । इच्छिज्जइ त्ति दोसा तदणुगता तेण णो जुत्ता ॥७१८॥ (न चावयवी विभिन्न एकान्तेनावयवेभ्यो जैनैः । इष्यते इति दोषास्तदनुगतास्तेन न युक्ताः ॥७१८॥) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366