Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 364
________________ ॥ सूरिपुरन्दर श्रीहरिभद्रसूरिस्तुतयः ॥ सूर्यप्रकाश्यं क्व नु मण्डलं दिवः, खद्योतकः क्वास्य विभासनोद्यमी । क्व धीशगम्यं हरिभद्रसद्वचः क्वाऽधीरहं तस्य विभासनोद्यतः ॥ - श्रीजिनेश्वरसूरिकृता अष्टकटीका परहिताधाननिबिडनिबुद्धिभगवान् सुगृहीतनामधेयः श्रीहरिभद्रसूरिः ॥ - श्रीमुनिचन्द्रसूरिकृता उपदेशपदवृत्तिः नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भूतज्ञानश्रीसमलङ्कृताः सुविशदाचारप्रभाभासुराः । येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसंपूर्णया भव्यस्येह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥ -श्रीप्रभानन्दसूरिकता जम्बुद्वीपसङ्ग्रहणीवृत्तिः उड्यम्मि मिहिरि भद्दं सुदिट्टिणो होइ मग्गदंसणओ । तह हरिभद्दायरियम्मि भद्दायरियम्मि उदयमिए ॥ - श्रीजिनदत्तसूरिकृतगणधरसार्धशतकम् श्री सिद्धसेन - हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः । येषां विमृश्य सततं विविधान् निबन्धान् शास्त्रं चिकीर्षति तनुप्रतिभोऽपि मादृक् ॥ श्रीवादिदेवसूरिकृतस्याद्वादरत्नाकरः Jain Education International हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥ - श्रीमलयगिरिसूरिकृता धर्मसङ्ग्रहणीवृत्तिः For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366