Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
भावतः सप्रदेशः) इति । दिग्भागभेदश्च तस्य परमाणोः पर्यायः, ततस्तदपेक्षया सप्रदेशतायां न कश्चिद्विरोधः ॥७१४॥
अथ कथं तस्य द्रव्यरूपता सिद्धा येनोच्यतेऽप्रदेशो द्रव्यतयेति । अत आह - रूवादिसंगतो जंण य रूवाणूवि केवलो अस्थि । तस्स रसादणुवेहा तेसिपि य तदणुवेधातो ॥७१५॥ (रूपादिसंगतो यन्न च रूपाणुरपि केवलोऽस्ति । तस्य रसायनुवेधात् तेषामपि च तदनुवेधात् ॥७१५॥)
यत्-यस्माद् रूपादिभिः संगतो-युक्तोऽयं परमाणुरन्यथा तदभावप्रसङ्गात् । किं हि तन्मूर्तमस्ति यत् रूपादिमन्न भवतीति । ततो रूपादिमत्त्वात् गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणतः परमाणुर्द्रव्यमेव । इह सुगतमतानुसारिणः प्राहु:-"प्रत्येकं रूपादिरूपाः परमाणवः," ततस्तन्मतविकुट्टनार्थमाह-'नय रुवाणूवि केवलो अत्थि'त्ति । न च रूपाणुरपि केवलोरसादिविकलोऽस्ति, उपलक्षणमेतत् नापि रसाधणवः केवलाः सन्तीति । कुत इत्याह-तस्य रूपाणोः रसाद्यनुवेधात् । तथाहि-य एव घृतपरमाणवश्चक्षुषोपलभ्यन्ते त एव रसनया मधुररसतया आस्वाद्यन्ते मृदुस्पर्श-विशेषस्वभावतया च स्पृश्यन्ते, ततोऽस्ति रूपाणूनां रसायनुवेधः, तथा तेषामपि रसाधणूनां तदनुवेधात्-रूपाद्यनुवेधात्, तथा प्रत्यक्षत एवोपलम्भात् । तथाहि-य एवेक्षुरसपरमाणवो मधुरसतया आस्वाद्यन्ते य एव च कठिनकामिनीकुचकलशपरमाणवः करादिना स्पृश्यन्ते, त एव रूपगुणानुषक्ता उपलभ्यन्ते, अन्यथा तेषां चक्षुषोपलम्भो न स्यात्, तेषां तदविषयत्वात्, तथा च प्रत्यक्षविरोध इति ॥७१५।।
अत्रैवाशङ्काशेषं परिहरन्नाह - णयऽमुत्ता एव गुणा एते खस्सेव तदणुवेहेवि । अद्दरिसणप्पसंगा मुत्तामुत्तेक्कभावो वा ॥७१६॥ (नचामूर्ती एव गुणा एते खस्येव तदनुवेधेऽपि । अदर्शनप्रसङ्गान् मूर्तामूर्तेक्यभावो वा ॥७१६॥)
न च एते रूपादयो गुणा अमूर्ती एव । कुत इत्याह-अदर्शनप्रसङ्गात् । अथ कथमदर्शनप्रसङ्गो यावता मूर्त्तिमता द्रव्येण सहानुवेधात् दर्शनं भविष्यतीत्यत आह-'खस्सेव तदणुवेहेवि' । तेन - मूर्त्तिमता द्रव्येण सहानुवेधेऽपि आस्तामननुवेधे इत्यपिशब्दार्थः, खस्येव-आकाशस्येव अदर्शनप्रसङ्गः । आकाशस्यापि हि रूपादीनामिव तेन मूर्त्तिमता द्रव्येण सहानुवेधोऽस्ति, तस्य सर्वगतत्वात्, न च तदुपलभ्यते, स्वयममूर्त्तत्वात्, तद्वत् रूपादयोऽप्यमूर्त्तत्वे सति नोपलभ्येरन् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366