Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
धर्मसङ्ग्रहणी
o
परिशिष्ट - २ असत: सर्वसामर्थ्यरहिततया कारणत्वायोगात् । पर आह- 'जह वंझापुत्ताई' । यथा वन्ध्यापुत्रादय आदिशब्दात् खरशृङ्गग्रहणम् । एतदुक्तं भवति - यथा वन्ध्यापुत्रादयः स्वरूपेणासन्तोऽपि नास्ति वन्ध्यापुत्र इत्येवमादेर्विज्ञानजातस्य हेतवो भवन्ति, तथाऽर्थोऽपि स्वरूपेणासन्नपि स्वबुद्धेर्निमित्तं भविष्यतीति । अत्राह-‘नेति' यदेतदुक्तं तन्न, कुत इत्याह-संबन्धप्रतिषेधात् 'नास्ति वन्ध्यापुत्र' इत्यादौ संबन्धप्रतिषेधनात् । न हि तत्र वन्ध्यादयः प्रतिषिध्यन्ते तेषामध्यक्षत एवोपलभ्य - मानत्वात्, नापि पुत्रादयस्तेषामपि सामान्यतोऽन्यत्रोपलब्धेः, किंतु वन्ध्यादेः पुत्रादिना सह यः संबन्धः स प्रतिषिध्यते, संबन्धाभावोऽपि च नैकान्तेन तुच्छरूपो यतस्तेन व्यभिचारः स्याद्, अपि तु वन्ध्यादेरेव पुत्रजनकत्वादिधर्म्मवैकल्यपरिणतिलक्षणः स्वभावविशेष:, ततो नासौ तथाप्रतिषेधबुद्धेर्निमित्तं भवन् विरुध्यते ॥७२५॥
४०
अथ कदाचित्परस्य स्वपक्षसिसाधयिषुतातरलितमतित्वादेवमपि श्रद्धा भवेत् - [- यथा वयमप्येवमर्थस्य प्रतिषेधं करिष्याम इत्यत आह
1
एवं किमत्थि अन्नं ? जमेत्थ उद्दिस्स अत्थजोगस्स ।
कीरइ पडिसेहो सति च तम्मि अत्थो कहं नत्थि ? ॥७२६ ॥
( एवं किमस्ति अन्यत् ? यदत्र उद्दिश्य अर्थयोगस्य ।
क्रियते प्रतिषेधः सति च तस्मिन् अर्थः कथं नास्ति ? || ७२६ ॥ )
एवं यथा-‘नास्ति वन्ध्यापुत्र' इत्यादौ पुत्रादिस्तथा किमन्यदस्ति विज्ञानातिरिक्तं यत् उद्दिश्य अत्र - विज्ञाने अर्थयोगस्य - अर्थसंबन्धस्य प्रतिषेधः क्रियते ? अस्तीति चेत् ? अत आह ‘सइ य' इत्यादि, सति च तस्मिन्-विज्ञानादन्यस्मिन् वस्तुभूते कथमुच्यते-'अर्थो नास्तीति' । विज्ञानातिरिक्तस्य सर्वस्याप्यन्यस्य वस्तुभूतस्यार्थशब्दवाच्यत्वात् ॥७२६॥
पर आह
सिय सव्वक्खोवक्खारहिओ वंझासुओ मओ एत्थ ।
कह तम्मि हंत नाणं अभिहाणं वावि पुव्वुत्तं ? ॥७२७ ॥
(स्यात् सर्वा सर्वाख्योपाख्यारहितो वन्ध्यासुतो मतोऽत्र ।
कथं तस्मिन् हन्त ! ज्ञानमभिधानं वापि पूर्वोक्तम् ॥७२७॥ )
Jain Education International
स्यादेतत्, अत्र ‘नास्ति वन्ध्यापुत्र' इत्यादौ प्रतिषेधे न संबन्धाभावमात्रं विषयत्वेन मतं, किंतु सर्वाख्योपाख्याविरहितो वन्ध्यासुतः, उपलक्षणत्वादेतस्य खरशृङ्गादिरपि, ततस्तदवस्थ एव असन् सोऽर्थः कथं बुद्धेः कारणं भवतीत्यस्य व्यभिचारः । अत्राह - ' कह तम्मीत्यादि' ।
-
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366