Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 345
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार -00 फलभावोऽभ्युपगम्येत ततस्तस्मिन् सति अतिप्रसङ्गः प्राप्नोति, स चानिष्ट इति यत्किचिदेतत् ॥६९९॥ उपसंहरति - ता जो इमस्स हेतू सो च्चिय बज्झत्थमोऽवसेणावि । अब्भुवगंतव्वमिदं एवं बज्झत्थसिद्धीओ ॥७००॥ (तस्माद् योऽस्य हेतुः स एव बाह्यार्थोऽवशेनापि । अभ्युपगन्तव्यमिदमेवं बाह्यार्थसिद्धितः ॥७००॥) 'ता' तस्मात् योऽस्य-पीतादिज्ञानस्य हेतुः, स एव बाह्योऽर्थः इतीदमवशेनापि-अकामेनापि अभ्युपगन्तव्यम् । एवं च सति बाह्यार्थसिद्धिरव्याहतप्रसरेति स्थितम् ॥७००। अत्र परस्य मतमाशङ्कमान आह - अह तु सहावो हेऊ भावोऽभावो व होज्ज ? जति भावो । सो चेव उ बज्झत्थो अह तु अभावो ण हेउत्ति ॥७०१॥ (अथ तु स्वभावो हेतुर्भावोऽभावो वा भवेत् ? यदि भावः । स एव तु बाह्यार्थः अथ तु अभावो न हेतुरिति ।।७०१॥) अथ न बाह्योऽर्थो हेतुः किंतु स्वभाव एव । तुरेवकारार्थो भिन्नक्रमश्च स चेह योजित एव । अत्राह-'भावो इत्यादि' । भावो वा स स्वभावो भवेदभावो वा ? तत्र यदि भावस्ततः स एव बाह्योऽर्थः केवलं स्वभावशब्देनाभ्युपगतः । अथाभावस्तर्हि न हेतुः, अभावस्य हेतुत्वायोगात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेविश्वस्यादरिद्रताप्रसङ्गः ॥७०१॥ पुनरप्यत्र परमारेकमान (ण) आह - सो भावोत्ति सहावो तस्सेव जमायरूवमो अह उ। तं चेव कारणंतरविगलं पीतादिहेउत्ति ॥७०२॥ (स्वो भाव इति स्वभावस्तस्यैव यदात्मस्वरूपमथ तु । तदेव कारणान्तरविकलं पीतादिहेतुरिति ॥७०२॥) अथ मन्येथाः स्वः-आत्मीयो भावः-सत्ता स्वभाव इति व्युत्पत्तेः तस्यैव नीलज्ञानस्य यदात्मरूपं तदेव च कारणान्तरविकलं-बाह्यार्थादिहेत्वन्तरविरहितं-पीतादिज्ञानहेतुरिति न कश्चिद्दोषः ॥७०२।। अत्राह - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366