Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 355
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार (किञ्चेह सत्यपूर्वा दृष्टा भ्रान्ति मरीचिकादिषु । तत्पुनः किमत्र ? विज्ञानमात्रमेतदपि प्रतिषिद्धम् ॥७२३॥) किंच इह-जगति या काचन भ्रान्तिः सा सर्वापि सत्यपूर्वा-सत्यार्थदर्शनपूर्विका दृष्टा, यथा-मरीचिकासु जलभ्रान्तिः । तदुक्तम्-“साधर्म्यदर्शनाल्लोके, भ्रान्ति मोपजायते । अतदात्मनि तादात्म्यव्यवसायेनेति" ॥ तत इयमपि भ्रान्तिरवश्यं किंचन तथाभूतं सत्यमवलम्बते, तत्पुनः सत्यं किमत्र भवेत् ? विज्ञानमात्रमितिचेत् ? नन्वेतदपि विज्ञानमात्र केवलं प्राक् प्रपञ्चेन प्रतिषिद्धम् । ततः सत्यतथाभूतबाह्यार्थनिबन्धनैवेयमपि भ्रान्तिरिति बाह्यार्थसिद्धिः ॥७२३॥ अन्यच्च - विन्नाणमेत्तपक्खेवि जं व रागादिया धुवं दोसा । ता ते ण तन्निमित्ता को णु पओसो तुहऽन्नत्थ ? ॥७२४॥ (विज्ञानमात्रपक्षेऽपि यच्च रागादिका ध्रुवं दोषाः । तस्मात्ते न तन्निमित्ताः को नु प्रद्वेषस्तवान्यत्र ॥७२४॥) विज्ञानमात्रपक्षेऽपि यत्-यस्माद् रागादय आदिशब्दात् द्वेषमोहपरिग्रहः दोषा ध्रुवं-निश्चिताः सन्ति । तदुक्तम् "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैविनिर्मुक्तं, भवान्त इति कथ्यते" ||१।। इति । तत किमित्याह-'ता ते न तन्निमित्तेति' । 'ता' तस्मात्ते-तव मते न तन्निमित्ता-न विज्ञानमात्रनिमित्ता भ्रान्तिः किंतु रागादिदोषनिमित्ता, रागादिदोषाभ्युपगमे च को नु प्रद्वेषस्तवान्यत्रार्थे येन स नाभ्युपगम्यते ? नैवासौ युक्तः, उभयोरपि तुल्ययोगक्षेमतया तस्य निष्कारणत्वात् इति भावः ॥७२४॥ पुनरपि परस्य मतमाशङ्कमान आह - सिय तब्बुद्धिनिमित्ताऽसंतो सो बुद्धिकारणं किह णु ? । जह वंझापुत्तादि ण तत्थ संबंधपडिसेहा ॥७२५॥ (स्यात् तद्बुद्धिनिमित्ताऽसन् स बुद्धिकारणं कथं नु ? । यथा वन्ध्यापुत्रादयो न तत्र सम्बन्धप्रतिषेधात् ॥७२५॥) स्यादेतत्, नासौ भ्रान्तिर्विज्ञानमात्रनिमित्ता नापि रागादिदोषनिमित्ता किंतु तद्बुद्धिनिमित्ताअर्थबुद्धिनिमित्ता, ततो न कश्चिदनन्तरोक्तदोषावकाशः । अत्राह - 'असंतो' इत्यादि । सःअर्थोऽसन्-अत्यन्ताविद्यमानः सन् कथं नु बुद्धेः कारणं भवेत् ? नैव कथंचनापीतिभावः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366