Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 359
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार ४३ विषयग्रहणपरिणामतः साकारता नत्वन्यथेत्येतत्कथमवसीयत इति चेत् ? अत आह-'तदभावे तदभावो' । यस्मात्तदभावे-विषयग्रहणपरिणामाभावे तदभावः तस्याः साकारताया अभावः, तमन्तरेण तस्याः सर्वथानुपपद्यमानत्वात्, यथोक्तं प्राक् भौतिकपुरुषवादिमतपरीक्षायाम् । 'न य सो'त्ति । न च सः-साकारताया अभावोऽस्ति, तस्याः स्वसंवेदनसिद्धतया अपह्नोतुमशक्यत्वात्, अन्यथा प्रतिकर्मव्यवस्थानुपपत्तेश्च । तस्मात्सको-विषयग्रहणपरिणामोऽस्तीति गम्यते ॥७३३।। एतेणं आगारो भिन्नोऽभिन्नोत्ति एवमादीयं । जं भणियं तं सव्व पडिसिद्ध होइ दट्ठव्वं ॥७३४॥ (एतेनाकारो भिन्नोऽभिन्न इति एवमादिकम् । यद्भणितं तत्सर्वं प्रतिषिद्धं भवति द्रष्टव्यम् ॥७३४॥) 'एतेन' विषयग्रहणपरिणामलक्षणाकारव्यवस्थापनेन 'सो खलु तस्सागारो भिन्नोऽभिन्नो वे'त्येवमादिकं यद्भणितं तत्सर्वं प्रतिषिद्धं भवति द्रष्टव्यम् ।।७३४॥ कथमित्याह - जं गाहगपरिणामो णियतो नाणम्मि होइ आगारो। न विसयगतसंकमतो जहुत्तदोसप्पसंगातो ॥७३५॥ ( यद्ग्राहकपरिणामो नियतो ज्ञाने भवति आकारः । न विषयगतसंक्रमतो यथोक्तदोषप्रसङ्गात् ॥७३५॥) यत्-यस्माद्य एव नियतो ज्ञाने ग्राहकपरिणामः स एव भवत्याकारो न विषयगतसंक्रमतोन विषयसंबन्धाकारसंक्रमतो ज्ञातव्यः कुत इत्याह-यथोक्तदोषप्रसङ्गात्-पूर्वाभिहितसकलदोषजालप्रसङ्गात् ॥७३५।। स्यादेतत्, यदि विषयग्रहणपरिणामलक्षणो ज्ञाने आकारस्ततः किमित्याह - ण य गज्झमंतरेणं सो जायइ जेण तेण तस्सिद्धी । तत्तो तु संगया बज्झदसणाणुभवतो चेव ॥७३६॥ (न च ग्राह्यमन्तरेण स जायते येन तेन तत्सिद्धिः । ततस्तु संगता बाह्यदर्शनानुभवत एव ॥७३६॥) न च सः-विषयग्रहणपरिणामलक्षण आकारो येन कारणेन ग्राह्यमर्थमन्तरेण जायते, तेन कारणेन तत एव-आकारादन्यथानुपपद्यमानात्, तुरवाधारणे, यो बाह्यस्यार्थस्यानुभवस्तस्मादेव तत्सिद्धिः-बाह्यार्थसिद्धिः संगता-युक्त्युपपन्नेति स्थितम् ॥७३६।। 'बुद्धस्य य दाण पारमिये'त्येतद्व्याचिख्यासुर्दानपारमितां तावद् व्याचष्टे - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366