Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 332
________________ धर्मसङ्ग्रहणी परिशिष्ट - २ अन्यथा तस्यावयविद्रव्यरूपस्य चतुरश्र(स्र)स्य एकत्वाभ्युपगमक्षितिप्रसङ्गात्, प्रत्यग्देशस्य च प्राग्देशाभावोपेतत्वात्, न चैतद्युक्तम्, एकत्र विधिप्रतिषेधयोर्युगपदसंभवात् । तन्न कश्चित्परपरिकल्पितोऽवयवी घटते इति ॥६६२॥ उपसंहारमाह - इय जुत्तिविरहतो खलु बुहेण बज्झत्थसत्तमिति मोहो । संसारखयनिमित्तं वज्जेयव्वो पयत्तेणं ॥६६३॥ (इति युक्तिविरहतः खलु बुधेन बाह्यार्थसत्त्वमिति मोहः । संसारक्षयनिमित्तं वर्जयितव्यः प्रयत्नेन ॥६६३॥) इतिः- एवं (प्र)दर्शितप्रकारेण युक्तिविरहतः खलु बाह्यार्थसत्त्वमिति-बाह्यार्थोऽस्तीति विज्ञानं मोहः, स च बुधेन संसारक्षयनिमित्तं 'संसारक्षयो मम भवतु' इत्येवमर्थं प्रयत्नेन वर्जयितव्यः, मोहस्य संसारनिबन्धनत्वात् ॥६६३।। तथा चाह - रज्जुम्मि सप्पणाणं मोहो भयमादिया ततो दोसा । ते चेव उ तन्नाणे ण होन्ति तत्तो य सुहसिद्धी ॥६६४॥ (रज्जौ सर्पज्ञानं मोहो भयादयस्ततो दोषाः। त एव तु तज्ज्ञाने न भवन्ति ततश्च सुखसिद्धिः ॥६६४॥) रज्जौ-दर्भादिदवरके यत् सर्पज्ञानमुपजायते तस्मान्मोहस्तस्माच्च मोहात् भयादयो दोषाः । मकारोऽलाक्षणिकः । आदिशब्दात्तत्संस्पर्शनेन हृदयोत्कम्पविह्वलतादिदोषपरिग्रहः । त एवभयादयो दोषाः तज्ज्ञाने-‘रज्जुरियं न सर्प' इति विज्ञाने न भवन्ति । 'तत्तो य'त्ति । तस्माच्च भयादिदोषाभावात् सुखसिद्धिरेष दृष्टान्तः ॥६६४॥ अमुमेवार्थ दार्टान्तिके योजयन्नाह - बज्झत्थे विन्नाणं मोहो रागाइया तओ दोसा । ते चेव उ तन्नाणे न होन्ति तत्तो य मोक्खसुहं ॥६६५॥ (बाह्यार्थे विज्ञानं मोहो रागादयस्ततो दोषाः । त एव तु तज्ज्ञाने न भवन्ति ततश्च मोक्षसुखम् ॥६६५॥) बाह्यार्थे यद्विज्ञानं तत्सत्त्वसाधनप्रवणमुपजायते तत् मोहो, बाह्यार्थस्य युक्त्याऽनुप For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366