Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 358
________________ ४२ धर्मसङ्ग्रहणी परिशिष्ट - २ भिधेयं, तत्राप्येकान्ततुच्छरूपस्याभावस्य विषयत्वाभावात् । तन्नार्थोऽसन्स्वबुद्धिनिमित्तं भवति, किंतु, सन्नेव, अनुभूयते चाविगानेनार्थबुद्धिस्ततस्तदन्यथानुपपत्त्या बाह्योऽर्थोऽभ्युपगन्तव्यः ॥७३०॥ एतदेवोपसंहरन्नाह - इय अत्थि नाणगम्मो बज्झो अत्थो न अन्नहा णाणं । जुज्जइ सागारं तह बुद्धस्स य दाणपारमिता ॥७३१॥ (इति अस्ति ज्ञानगम्यो बाह्योऽर्थो नान्यथा ज्ञानम् । युज्यते साकारं तथा बुद्धस्य च दानपारमिता ॥७३१॥) इतिः-एवमुपदशितेन न्यायेन अस्ति ज्ञानगम्यो बाह्योऽर्थः । कथमित्याह-यस्मान्न अन्यथाबाह्यार्थमन्तरेण ज्ञानं युज्यते साकारम्-अर्थाकारोपेतं, ततोऽर्थाकारान्यथानुपपत्त्या बाह्योऽर्थो ज्ञानगम्य इति प्रतिपत्तव्यम् । न, केवलमसौ ज्ञानगम्यः किंत्वागमगम्योऽपि । तथा चाह-'तह बुद्धस्स य दाणपारमिया' । बुद्धस्य च या आगमाभिहिता दानपारमिता सापि बाह्यार्थसद्भावमन्तरेण सर्वथा न युज्यते, पुष्कलचित्तेन वित्तातिसर्जनरूपत्वात् दानपारमितायाः । तस्मादागमप्रामाण्यमपीच्छता अवश्यमेव बाह्योऽर्थोऽभ्युपगन्तव्यः ॥७३१।। एतदेव क्रमेणोपपिपादयिषुराह - तं केवलं अमुत्तं न य आगारो इमस्स जुत्तोत्ति । तदभावम्मि य पावइ वत्तं संवेयणाभावो ॥७३२॥ (तत्केवलममूर्त न चाकार एतस्य युक्त इति । तदभावे च प्राप्नोति व्यक्तं संवेदनाभावः ।।७३२॥) तत्-ज्ञानं केवलं स्वरूपेण चिन्त्यमानममूर्त-मूर्त्तिविरहितं, न चामूर्तस्य स्वरूपत आकारो युज्यते, तथाऽनुपलम्भात्, तदभावे च-आकाराभावे च स्वसंवेदनसिद्धस्य घटपटादिसंवेदनस्य व्यक्तं-स्फुटमभावः प्राप्नोति । आकारविशेषमन्तरेण प्रतिकर्म व्यवस्थानाभावात् ।।७३२।। ता विसयगहणपरिणामतो तु सागारता भवइ तस्स । तदभावे तदभावो न य सो तम्हा तओ अत्थि ॥७३३॥ (तस्माद्विषयग्रहणपरिणामतस्तु साकारता भवति तस्य । तदभावे तदभावो न च स तस्मात्सकोऽस्ति ॥७३३॥) 'ता' तस्मादनुभवसिद्धघटपटादिसंवेदनान्यथानुपपत्तितो ध्रुवमेतदभ्युपगन्तव्यं यथा विषयग्रहणपरिणामतोविषयग्रहणपरिणामलक्षणाकारसद्भावतस्तस्य-ज्ञानस्य साकारता भवतीति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366