Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
अत्रैवोपचयमाह - किंच इहं नीलातो जायइ पीतादणेगधा णाणं । णय तं अहेतुगं चिय को हेतू तस्स वत्तव्वं? ॥६९४॥ (किञ्चेह नीलाद् जायते पीताद्यनेकधा ज्ञानम् । न च तदहेतुकमेव को हेतुस्तस्य वक्तव्यम् ? ॥६९४॥)
किंच इह-जगति नीलात्-नीलाकारात् विज्ञानादनन्तरं जायते पीतादि-पीताकारादि ज्ञानमनेकधा-अनेकप्रकारं, न च तत्-पीतादिकज्ञानमहेतुकं, सदाभावादिप्रसङ्गात्, ततो यदि बाह्योऽर्थस्तथा तथा विचित्राकाराधायकत्वेन नाभ्युपगम्यते तर्हि तस्य पीतादिज्ञानस्य को हेतुरिति वक्तव्यम् ? ॥६९४।।
पर आह - आलयगता अणेगा सत्तीओ पागसंपउत्ताओ। जणयंति नीलपीतादिनाणमन्नो न हेतुत्ति ॥६९५॥ (आलयगता अनेकाः शक्तयः पाकसंप्रयुक्ताः । जनयन्ति नीलपीतादिज्ञानमन्यो न हेतुरिति ॥६९५॥)
आलयगता:-आलयविज्ञानगता अनेकाः शक्तयः । 'पागसंपउत्त'त्ति । पाकसंप्रयुक्ता विपाकप्राप्ताः सत्यो जनयन्ति नीलपीतादिकं-नीलपीताद्याकारं ज्ञानमतस्ता एव हेतवो न पुनरन्यो बाह्योऽर्थ इति ॥६९५।।
अत्राचार्य आह - ता आलयातो भिन्नाऽभिन्ना वा होज्ज ? भेदपक्खम्मि । ता चेव उ बज्झत्थोऽभेदे सव्वाणमेगत्तं ॥६९६॥ (ता आलयाद् भिन्ना अभिन्ना वा भवेयुः ? भेदपक्षे । ता एव तु बाह्यार्थोऽभेदे सर्वासामेकत्वम् ॥६९६॥)
ता:-शक्तयो नीलपीताद्याकारज्ञानहेतवः आलयात्-आलयविज्ञानात्सकाशात् भिन्ना वा भवेयुरभिन्ना वा ? तत्र यदि भेदपक्षस्ततस्ता एव-शक्तयो बाह्योऽर्थः, ज्ञानादन्यस्य सर्वस्यापि वस्तुसतो बाह्यार्थत्वेनाभ्युपगमात् । अभेदे-अभेदपक्षे चाभ्युपगम्यमाने सर्वासामपि शक्तीनामेकत्वं प्राप्नोति, एकस्मादालायादनन्यत्वात्, तत्स्वरूपवत् ।।६९६।।
एतदेव भावयति -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366