Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
यदि वन्ध्यासुतादिरेव तत्र विषयत्वेनाभिमतस्ततः कथं तस्मिन्-वन्ध्यासुतादौ सर्वाख्योपाख्याविरहिते हन्त ज्ञानमभिधानं वा पूर्वोक्तस्वरूपं प्रवर्त्तते ? नैव कथंचनापि प्रवर्त्तते इति भावः । सर्वाख्योपाख्याविरहितत्वेन तस्य विषयत्वशक्तेरप्ययोगात् ॥७२७॥
अत्रैव प्रतिषेधविचारावसरे सौगतविशेषान्तरस्यापि मतमपनिनीषया निर्दिशति - भावोवलंभओ च्चिय केइ अभावोऽवि गम्मती तुच्छो । एयमिह उवलभामि एयं तु न (नेव) ति विन्नाणा ॥७२८॥ तुच्छत्तं एगंता एतं तु णेवत्तिसद्दवित्तीउ। कह सिज्झतित्ति ? तम्हा वत्थुसहावो अभावो (उ) वा ॥७२९॥ (भावोपलम्भादेव केचिदभावोऽपि गम्यते तुच्छः । एतदिह उपलभे एतत्तु न (नैव) इति विज्ञानात् ॥७२८॥) (तुच्छत्वमेकान्तादेतत्तु नैवेति शब्दवित्तिभ्याम् । कथं सिध्यति ? तस्माद्वस्तुस्वभावोऽभावो (तु) वा ॥७२९॥)
केचिदर्थनयप्रधानाः सन्तो धर्मकीर्त्यादय एवं बुवते - यथा भावोपलम्भादभावोऽप्येकान्तेन तुच्छरूपोऽपि गम्यते । कथमित्याह-एतत्-घटादिकमिह-भूतलादौ उपलभे एतत्तुपटादिकं नैवेति शब्दप्रवृतेवित्तिप्रवृत्तेश्च (अभावस्यैकान्तात्सर्वथा सकलाख्योपाख्याविरहितरूपतया सिद्धिः, तन्न, नैवेतिशब्दप्रवृत्तेविज्ञानप्रवृत्तेश्च) कथमेकान्तेन पटाद्यभावस्य वन्ध्यापुत्राद्यभावस्य च तुच्छत्वमेकान्तात् ? एकान्तेन तुच्छत्वं सकलाख्योपाख्याविरहरूपत्वं (कथं) सिध्यति ? नैव सिध्यतीति भावः । एकान्ततुच्छस्य ज्ञेयत्वादिस्वभावायोगतस्तत्र यथोक्तवित्तिप्रवृत्त्यादेरसंभवात् । तस्मादभावो वस्तुस्वभाव एव यथोक्तोऽवगन्तव्यो नत्वेकान्तेन तुच्छरूपः । तुशब्द एवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजित एव ॥७२८-७२९॥
भावेवि न तुच्छंमि (तम्मि य भावेऽवस्स न तुच्छे) नाणं सद्दो य सव्वहा कमति । ता वंझासुतणातं न संगयत्थं ते (स) विन्नाणा ॥७३०॥ (भावेऽपि न तुच्छे (तस्मिंश्च भावेऽवश्यं न तुच्छे) ज्ञानं शब्दश्च सर्वथा क्रमते । तस्माद् वन्ध्यासुतज्ञातं न संगतार्थं ते (स) विज्ञानात् ॥७३०॥)
भावेऽपि-सद्भावेऽप्येकान्तेन तुच्छरूपस्याभावस्य न तुच्छे तस्मिन्नभावे ज्ञानं शब्दो वा क्रमते, तद्विषयत्वशक्त्ययोगात्, अन्यथा तुच्छत्वानुपपत्तेः, अस्ति चाविगानेन सकलजनप्रसिद्ध तद्विषयं क्रममाणं ज्ञानादि, ततो 'नास्ति वन्ध्यापुत्र' इत्येवंविज्ञानादुपलक्षणमेतत् एवंरूपशब्दप्रवृत्तेश्च यत् प्रागुदीरितं वन्ध्यासुतनिदर्शनं 'जह वंझापुत्ताई' इति, तन्न संगतार्थं-न समीचीना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366