Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 322
________________ धर्मसङ्ग्रहणी परिशिष्ट - २ यत्पुनरुक्तं - यदपि जन्तुशरीरे उभयजं तत्राप्यविगानमेवेति, तत्र ज्ञानवाद्याह - बज्झत्थाभावातो भत्ती एसा इमो तु देहोत्ति । विन्नाणमेत्तमेव उ परमत्थो कह णु अविगाणं? ॥६३६॥ (बाह्यार्थाभावाद् भक्तिरेषाऽयं तु देह इति । विज्ञानमात्रमेव तु परमार्थः कथं नु अविगानम् ॥६३६॥) ननु विज्ञानमात्रमेव परमार्थः न तु बाह्योऽर्थः, तस्य वक्ष्यमाणयुक्त्या अनुपपद्यमानत्वात्, ततो बाह्यार्थाभावात् यदेतदुच्यते – 'अयं देह इति, भक्तिरेषा-स्वदर्शनानुराग एषः । ततः कथं नु अविगानम् ? येनोच्यते 'जं पुण जंतुसरीरे उभयजमित्थंपिमं चेव'त्ति ॥६३६॥ कथं पुनर्बाह्यार्थाभावः सिद्धो येन विज्ञानमात्रमेव परमार्थः स्यादिति चेत् ? अत आह - बज्झत्थो परमाणू समुदायो अवयवी व होज्जाहि? । गाहगपमाणविरहा सव्वोऽवि ण संगतो एस ॥६३७॥ (बाह्यार्थः परमाणवः समुदायोऽवयवी वा भवेत् । ग्राहकप्रमाणविरहात् सर्वोऽपि न संगत एषः ॥६३७॥) बाह्योऽर्थो हि परमाणवो वा समुदायो वा - परमाणुसमुदायः अवयवी वा भवेत् ? न च एष सर्वोऽपि संगतः, कुत इत्याह-तद्ग्राहकप्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता, मा प्रापदतिप्रसङ्ग इति ॥६३७।। तत्र यथा परमाणुषु ग्राहकप्रमाणाभावस्तथोपपादयन्नाह - परमाणवो ण इंदियगम्मा तग्गाहकं कुतो माणं ? । अविगाणाभावातो ण जोगिनाणंपि जुत्तिखमं ॥६३८॥ (परमाणवो नेन्द्रियगम्यास्तद्ग्राहकं कुतो मानम् । अविगानाभावान्न योगिज्ञानमपि युक्तिक्षमम् ॥६३८॥) परमाणवो नेन्द्रियगम्या-न चक्षुरादीन्द्रियगोचराः ततस्तद्ग्राहकं प्रत्यक्ष प्रमाणं कुतो भवेत् ? न कुतश्चिदिति भावः, अतीन्द्रियत्वात् । स्यादेतत्, मा भूदस्मदादिप्रत्यक्षं तद्ग्राहकं प्रमाणं, योगिप्रत्यक्षं तु तद्ग्राहकं भविष्यतीति आह - 'अविगाणेत्यादि' । न योगिज्ञानमपि-न योगिप्रत्यक्षमपि परमाणुसिद्धौ युक्तिक्षमम्, कुत इत्याह-अविगानाभावात् विगानादित्यर्थः ॥६३८॥ विगानमेव दर्शयतिकेई पेच्छइ जोगी परमाणु सुन्नतं तहा अन्ने । एगप्पवायगहणे को णु पदोसो तु इतरम्मि ? ॥६३९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366