Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
२६
धर्मसङ्ग्रहणी
परिशिष्ट - २ (अथ स परस्य एवं तदभावस्तयैव साध्य इति । तवात्मनिश्चयः कथम् ? अयुक्तितः सा समा ज्ञाने ॥६९१॥)
अथ सःबाह्योऽर्थः परस्य-अर्थवादिन एवम्-उपलब्धिलक्षणप्राप्तोऽभिमतस्तत्कथं तस्यादर्शनादभावनिश्चयो न भवतीति ? अत्राह - 'तदभावो' इत्यादि । यदि परस्योपलब्धिलक्षणप्राप्तोऽर्थोऽभिमतस्ततस्तस्यैव-परस्य तदभावो बाह्यार्थाभावः साध्यः स्यात्, तव पुनरात्मनिश्चयो-बाह्यार्थाभावविषयः कथमुपजायते ? पर आह - 'अजुत्तिउत्ति । अयुक्तेः-युक्त्यभावात् । यद्यपि हि नोपलब्धिलक्षणप्राप्तोऽर्थस्तथापि नासौ युक्त्या युज्यत इति तदभावनिश्चयः कर्तुं शक्यत एवेति । अत्राह-'सा समा णाणे' । सा-अयुक्तिर्ज्ञानेऽपि समा-तुल्या यथाऽभिहितं प्राक्, ततो नायुक्तेरप्यर्थाभावनिश्चयः ॥६९१॥
किंच - न य णाणाण विरोहो सिद्धो अत्थस्स जणयतब्भावे । गम्मति इहराभावो सिद्धीए य कह तओ नत्थि ॥६९२॥ (न च ज्ञानानां विरोधः सिद्धोऽर्थस्य जनकतद्भावे । गम्यते इतरथाभावः सिद्धौ च कथं सको नास्ति ॥६९२॥)
न च ज्ञानानां विषये अर्थस्य यो जनकतद्भावः- स चासौ भावश्च तद्भावो जनकश्चासौ तद्भावश्च जनकतद्भावो, जनकस्वभावत्वमितियावत् तस्मिन् कश्चिद्विरोधः सिद्धः, तत्साधकप्रमाणाभावात्, अपितु तथातथाविचित्राकारोपेतज्ञानप्रबन्धदर्शनाद् गम्यते अर्थस्य जनकतद्भावः इतरथा-एवमनभ्युपगमे ज्ञानस्याभावः प्राप्नोति, आकाराधानसमर्थस्य कारणान्तरस्याभावात् । सिद्धौ च-भावे च ज्ञानस्य तत्तत्तथाविधविचित्राकारोपेतस्य कथं 'तउ'त्ति सक:-अर्थो नास्तीत्युच्यते इति । स्यादेतत् यद्यर्थो भवेत् ततस्तद्ग्राहकं प्रमाणमपि प्रवर्तेत, न च प्रवर्त्तते, तस्मात्स नास्त्येवेति ॥६९२।।
अत आह - गाहगपमाणविरहो एवं साधारणो उ नाणेवि । अत्थि य तं अत्थस्सवि सत्ता तह चेव अणिसेज्झा ॥६९३॥ (ग्राहकप्रमाणविरह एवं साधारणस्तु ज्ञानेऽपि । अस्ति च तदर्थस्यापि सत्ता तथैवानिषेध्या ॥६९३॥)
ग्राहकप्रमाणविरह एवम्-अनन्तरोक्तेन प्रकारेण ज्ञानेऽपि साधारण एव । तुशब्द एवकारार्थः । अथ च तत् ज्ञानमस्ति, तथा अर्थस्यापि सत्ता अनिषेध्यैव ॥६९३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366