Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 330
________________ १४ धर्मसङ्ग्रहणी परिशिष्ट - २ ___ यद्यप्यनित्यत्वादिदोषप्रसङ्गभयादमूर्तोऽवयवी अभ्युपगम्यते तथापि अमूर्त्तत्वेऽपि 'हन्तेति' परामन्त्रणे 'से' तस्यावयविन आकाशस्येवानुपलम्भः प्राप्नोति, अथवा इतरस्यापि-आकाशस्य अवयविन इव उपलम्भः प्राप्नोति । कुत इत्याह-तदभेदात्-तयोरमूर्त्तत्वाभिन्नदेशत्वयोरुभयत्राप्यभेदात्-अविशेषात् ॥६६०॥ अत्रार्थवादिनो मतमाह - समवायलक्खणेणं संबंधेणं ण तंपि संबद्धं । तदभिन्नदेसताए को अन्नो एस समवायो ? ॥६६१॥ (समवायलक्षणेन सम्बन्धेन न तदपि सम्बद्धम् । तदभिन्नदेशतायाः कोऽन्य एष समवायः ॥६६१॥) अवयव्येष स्वावयवैः सह समवायलक्षणेन संबन्धेन संबद्धो न तदपि-आकाशं, ततो नामूर्त्तत्वाभिन्नदेशत्वाविशेषेऽपि तस्योपलम्भप्रसङ्ग इति । अत्राह - 'तदभिन्नेत्यादि' । ननु तदभिन्नदेशतायाः-स्वावयवाभिन्नदेशतायाः सकाशात् अन्यः क एष समवायोऽवयविनः स्वावयवेषु ? नैव कश्चिदित्यर्थः, किंतु तदभिन्नदेशतैव, सा चाकाशेऽप्यविशिष्टेति तस्याप्युपलम्भः प्राप्नोति, न च भवति, तस्मादवयविनोऽपि मा भूदिति ॥६६१॥ तम्हा मुत्तसरुवानुगमं मोत्तूण णत्थऽमुत्तस्स ।। गहणं तब्भावम्मि य एगंतेणं कहं भेदो ? ॥६६२॥ (तस्मान्मूर्तस्वरूपानुगमं मुक्त्वा नास्त्यमूर्तस्य । ग्रहणं तद्भावे च एकान्तेन कथं भेदः ॥६६२॥) तस्मान्मूर्तस्वरूपानुगम-मूर्त्तिमत्स्वारम्भकावयवस्वरूपानुगमनं मुक्त्वा नास्त्यमूर्तस्यावयविनो ग्रहणं, तद्भावे च मूर्तस्वारम्भकावयवस्वरूपानुगमभावे च कथमेकान्तेन द्विप्रदेशिकावयविपरमाणुद्वयोर्भेदः ? किंत्वभेद एव, तथा च सति पूर्वोक्तानित्यत्वादिदोषप्रसक्तिरव्याहतप्रसरेति यत्किंचिदेतत् । किं च, तस्यावयविनः स्वारम्भकावयवेभ्यो जन्मापि न युक्त्योपपद्यते । तथाहि-परमाणव आकालमप्रच्युतानुत्पन्नस्थिरैकस्वभावाः । “सूक्ष्मो नित्यश्च भवति परमाणुरित्यादिवचनात्," ततश्च यदि प्रागवयविनो व्यणुकादेर्न जनकास्ततः पश्चादपि तत्स्वभावानिवृत्तेरजनका एव, अन्यथा प्रागपि ते जनयेयुरिति । अपि च, यदि स्वारम्भकावयवेभ्योऽवयवी भिन्नः समुत्पद्यते ततः पञ्चपलपरिमाणसूत्रपिण्डादेः पटादिरूपार्थान्तरावयविनिष्पत्तौ तस्यापि महत्त्वेनाभ्युपगमात् तोलने तुलानतिविशेषो गृह्येत, न च गृह्यते, तत्कथमास्था तत्र विदुषाम् ? अथोच्येत-यथा जलान्मत्स्यस्य काष्ठाद्वा घुणस्यार्थान्तरभूतस्योत्पत्तावपि न Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366