Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 337
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार द्वितीयं पक्षमाशय दूषयति - अह गाहगरूवं चिय इय वि गज्झस्सऽभावतो णेयं । विवरीयं सव्वं चिय जं भणितं गज्झपक्खम्मि ॥६७८॥ (अथ ग्राहकरूपमेव इत्यपि ग्राह्यस्याभावाद् ज्ञेयम् । विपरीतं सर्वमेव यद् भणितं ग्राह्यपक्षे ॥६७८॥) अथ मन्येथास्तत् ज्ञानं ग्राहकरूपमेवेति पक्षो न ग्राह्यरूपमिति । अत्राह - ‘इयवीत्यादि' इत्यपि-अस्मिन्नपि पक्षेऽभ्युपगम्यमाने ग्राह्यस्याभावात्-सर्वथा ग्राह्यरूपस्य ज्ञानान्तरस्याभावाद्यद्भणितं ग्राह्यपक्षे दूषणं तत्सर्वं विपरीतं ज्ञेयम्, तथाहि-यदि तत् ज्ञानं ग्राहकरूपमेवेत्यभ्युपगमस्तर्हि समस्तेऽपि भुवने सकलज्ञानानां ग्राहकरूपैकस्वभावत्वाभ्युपगमात् सर्वथा न समस्ति ग्राह्यं विज्ञानं, तदभावे च कथं ग्राहकरूपता ? ग्राह्यापेक्षयैव तस्याः संभवात् । अथ स्वरूपग्राह्यापेक्षया ग्राहकरूपता न तर्हि तद्विज्ञानं ग्राहकमेव, ग्राह्यरूपत्वस्यापीदानीमभ्युपगमादिति ॥६७८॥ तृतीयं पक्षमधिकृत्याह - सिय तं उभयागारं विरोहभावा ण संगतमिदंपि । तेसिपि मिहो भेओऽभेदो उभयं व होज्जाहि ? ॥६७९॥ (स्यात् तदुभयाकारं विरोधभावान्न संगतमिदमपि । तेषामपि मिथो भेदोऽभेद उभयं वा भवेत् ॥६७९॥) स्यादेतत्, तत्-विज्ञानमुभयाकारं-ग्राहकरूपं ग्राह्यरूपं च, ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । अत्राह-'विरोहेत्यादि' । इदमपि उभयाकारत्वं न संगतम् । कुत इत्याह-विरोधभावात् । तथाहि-तत् ज्ञानमेकस्वभावं तद्यदि ग्राहकरूपं कथं ग्राह्यरूपं ? ग्राह्यरूपं चेत् कथं ग्राहकरूपमिति । अन्यच्च, तयोरपि-ग्राह्याकारग्राहकाकारयोमिथः-परस्परं भेदो वा स्यादभेदो वा उभयं वेति ? पक्षत्रयम् ॥६७९।। तत्राद्यपक्षमाधिकृत्याह - भेदे कहमेगं णणु उभयागारं ? णहेगवावित्तं । दोण्ह विरुद्धाण जतो दिटुं इटुं च समयम्मि ॥६८०॥ (भेदे कथमेकं ननु उभयाकारम् ? नहि एकव्यापित्वम् । द्वयोविरुद्धयोः यतो दृष्टमिष्टं च समये ॥६८०॥) For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366