________________
सू० १११] कारकसाकल्यवादः तमव्यपदेशाहम् , यथा हि च्छिदिक्रियायां कुठारेण व्यवहितोऽ. यस्कारः, खपरपरिच्छित्तौ विज्ञानेन व्यवहितं च परपरिकल्पितं साकल्यादिकमिति । तस्मात् कारकसाकल्यादिकं साधकतमव्यपदेशाह न भवति।
किंच; स्वरूपेण प्रसिद्धस्य प्रमाणत्वादिव्यवस्था स्थानान्यथा-५ अतिसङ्गात्-न च साकल्यं स्वरूपेण प्रसिद्धम् । तत्स्वरूपं हि सकलान्येव कारकाणि, तद्धर्मों वा स्यात् , तत्कार्य वा, पदार्थान्तरं वा गत्यन्तराभावात् ? न तावत्सकलान्येव तानि साकल्यस्वरूपम् कर्तृकर्मभावे तेषां करणत्वानुपपत्तेः। तद्भावे वा-अन्येषां कर्तृकर्मरूपता, तेषामेव वा? नतावदन्येषाम् , सकलकारकव्यति-१० रेकेणान्येषामभावात् , भावे वा न कारकसाकल्यम् । नापि तेषामेव कर्त्तकर्मरूपता; कारणत्वाभ्युपगमात् । न चैतेषां कर्तृकर्मरूपाणामपि करणत्वं परस्परविरोधात् । कर्तृता हि ज्ञानचिकीर्षाप्रयत्नाधारता स्वातन्त्र्यं वा, निवर्त्यत्वादिधर्मयोगित्वं कर्मत्वम् , करणत्वं तु प्रधानक्रियाऽनीधारत्वमित्येतेषां कथमेकत्र सम्भवः १ १५ तन्न सकलकारकाणि साकल्यम् । ___नापि तद्धर्मः स हि संयोगः, अन्यो वा ? संयोगैश्चेन; आस्याऽनन्तरं-विस्तरतो निषेधात् । अन्यश्चेत् ; नास्य साकल्यरूपपता अतिप्रसङ्गात्-व्यस्तार्थानामपि तत्सम्भवात् । किं चाऽसौ कारकेभ्योऽव्यतिरिक्तः, व्यतिरिक्तो वा ? यद्यव्यतिरिक्तः, तदा धर्ममात्रं २० कारकमात्रं वा स्यात् । व्यतिरिक्तश्चेत्सम्बन्धाऽसिद्धिः। सम्बन्धेऽपि वा सकलकारकेषु युगपत्तस्य सम्बन्धेऽनेकदोषदुष्टसीमा
१ प्रदीपादि लिखितादि ॥ तथाहीत्यत्र कारकसाकल्यादिकं धर्मि, मुख्यरूपतया 'साधकतमव्यपदेशाह न भवतीति धर्मः, स्वपरपरिच्छित्तौ विज्ञानेन व्यवहितत्वात् प्रदीपादिवत् । २ ज्ञातस्य । ३ साधकतमत्व । ४ खरविषाणादेः । ५ अत्र यथासंख्यं खार्थे भावे कर्मणि ध्यण् । ६ प्रमाणरूपसाकल्यस्य करणस्वरूपत्वं यतः। ७ कारकाणाम् । ८ मीमांसकानां कादीनां लक्षणमिदम् । ९ च्याप्यं विषयभूतं च निर्वत्य विक्रियात्मकम् । कर्तुश्च क्रियया व्याप्तमीप्सितानीप्सितेतरत्"। १० छेदनम् । उत्क्षेपणापक्षेपणस्यैव आधारत्वं न तु च्छिदेरित्यर्थः। ११ कर्मकोरेव छिदि प्रमितिलक्षणप्रधानक्रियाधारत्वं न तु करणस्य । १२ विरुद्धधर्माणाम् । १३ साकल्ये। १४ प्रमेयत्वप्रमातृत्वसत्त्वादि । १५ सन्निकर्षः। १६ साधारमिदमये। १७ अन्यधर्म । १८ कारकाणां द्वित्र्यादीनाम् । १९ धर्मो वा कारकरूपधी वा स्यात् कारकेभ्योऽन्यधर्मस्याव्यतिरिक्तत्वात्। २० एकस्वभावेनानेकस्वभावेन च वृत्ती सामान्यानवस्थादयः स्युः। २१ सामान्यादौ ये दोषास्तेऽत्रापि स्युरित्यर्थः । एकस्वभावेन खभावभेदेन च वृत्तौ सामान्यत्वानवस्थादयः।