________________
सू० ११३] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् २९ वा? न तावद्विषयाभेदकृतम्:सन्तानेतरविषयत्वेनानयोर्विषयामेदाऽसिद्धेः ज्ञानरूपतासादृश्येन त्वमेदाध्यवसाये-नीलपीतादिज्ञानानामपि भेदेनोपलम्भो न स्यात् । अथाभिभवात् ; केन कस्याभिभवः ? विकल्पेनाविकल्पस्य भानुना तारानिकरस्येवेति चेत् ; विकल्पस्याप्यविकल्पेनाभिभवः कुतो न भवति ? बलीयस्त्वा-५ दस्येति चेत्, कुतोस्य वलीयस्त्वम्-बहुविषयात्, निश्चयात्मकत्वाद्वा? प्रथमपक्षोऽयुक्तः, निर्विकल्पविषय एव तत्प्रवृत्यभ्युपगमात् , अन्यथा अगृहीतार्थग्राहित्वेन प्रमाणान्तरत्वप्रसङ्गः। द्वितीयपक्षेपि वरूपे निश्चयात्मकत्वं तस्य, अर्थरूपे वा ? न तावत्स्वरूपे
"सर्वचित्तवेत्तानामात्मसंवेदनं प्रत्यक्षम्" न्यायबि० पृ० १९] इत्यस्य विरोधात् । नाप्यर्थ-विकल्पस्यैकस्य निश्चैयानिश्चयस्वभावद्वयप्रसंगात् । तच्च परस्परं तद्वतश्चैकान्ततोभिन्नं चेत्; समवायाद्यनभ्युपंगमात् सम्वन्धासिद्धेः 'वलवान्विकल्पो निश्चयात्मकत्वात्' इत्यस्यासिद्धेः । अभेदैकान्तेपि-तद्वयं तद्वानेव वा भवेत् ।१५ कथंचित्तादात्म्ये-निश्चयानिश्चयस्वरूपसाधारणमात्मानं प्रतिपद्यते चेद्विकल्पः-स्वरूपेपि सविकल्पकः स्यात्, अन्यथा निश्चयस्वरूपतादात्म्यविरोधः। न च स्वरूपमनिश्चिन्वन्विकल्पोऽर्थनिश्चीयकः, अन्यथाऽगृहीतस्वरूपमपि ज्ञानमर्थग्राहकं भवेत् तथाच"अप्रत्यक्षोपलम्भस्य" [ ] इत्यादिविरोधः, तत्स्वरूप-२०
१ क्षण। २ पुनः । ३ क्षण। ४ तिरस्कारः । ५ परैः। ६ निर्विकल्पकबोध । ७ सविकल्पक्षण। ८ निर्विकल्पकक्षण। ९ नीलमिति स्वसंवेदनेन । १० स्वसंवेदनम्। ११ नीलाद्याकारतया सविकल्पाः क्षणाः। १२ सर्वज्ञानानां स्वरूपे निर्विकल्पकत्वाभ्युपगमस्य ग्रन्थस्य । १३ स्वरूपेऽनिश्चयात्मकत्वमथें निश्चयात्मकत्वम् । १४ ततः स्वरूपनिश्चयाभावात्। १५ विकल्पात् । १६ वरूपम् । १७ परेण । १८ त्रयाणां भेदात्। १९ सौगताभ्युपगतस्य हेतोः। २० स्वरूपम् । २१ विकल्पः। २२ सति । २३ स्वरूपम् । २४ तथा चापसिद्धान्तप्रसङ्गः। २५ भा। २६ विकल्पस्य । २७ किंच। २८ अशात । २९ नाशातं नाम शापकम् । ३० अत्यन्तपरोक्षशानस्य । ३१ नार्थसिद्धिः प्रसिद्धयति ।
1 तुलना-अथ विकल्पस्य बलीयस्त्वाद'...सन्मति० टी० पृ० ५००
स्या० रत्नाकर पृ० ५० 2 'अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिद्धयति । तन्न ग्रामस्य संवित्तिाहकानुभवादृते' ॥ २०७४ ॥ तत्त्वसं०