________________
३०४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० कत शक्यमिति न कश्चिन्मुक्तः स्यात् । अथ तपोमाहात्म्यानिर्जीर्णमधिकस्थितिकत्वेन फलदानासमर्थम् आयुःकर्मसमानं क्रियते; तथा वेद्यमपि क्रियतामविशेषात् ।
एतेनेदमप्यपास्तम्-यदि वेदनीयमफलम् तत्र तन्नास्त्येव ५ ज्ञानावरणादिवत्, तथा च कर्मपञ्चकस्याभावस्तत्र प्राप्नोतीति। कथम् ? यद्यायुरधिकानि वेद्यादीनि स्वफलदानसमर्थानि; तर्हि मुक्त्यभावः। नो चेन्न तेषां कर्मत्वमिति तदपनयनाय योगिनों लोकपूरणादिप्रयासो व्यर्थः । अनुष्ठानविशेषेणापहृतसामर्थ्याना
मवस्थानं वेद्यपि समानम् । न च कारणमस्तीत्येतावतैव कार्यो१० त्पत्तिः, अन्यथेन्द्रियादिकार्यस्याप्यनुषङ्गाद्भगवतो मतिज्ञानस्य
रागादीनां च प्रसङ्गः । अथावरणक्षयोपशमस्य मोहनीयकर्मणश्च सहकारिणो विरहान्नेन्द्रियादि स्वकार्ये व्याप्रियते; अत एव वेदनीयमपि न व्याप्रियेत । न ह्यत्यन्तमात्मनि परत्र वा विरतव्यामो
हस्तदर्थ किञ्चिदादातुं हातुं वा प्रवर्त्तते । प्रयोगः-यो यत्रात्यन्तं १५ व्यावृत्तव्यामोहः स तदर्थ किञ्चिदादातुं हातुं वा न प्रवर्तते यथा व्यावृत्तव्यामोहा माता पुत्रे, व्यावृत्तात्यन्तव्यामोहश्च भगवान्, ततः सोपि भोजनमादातुं क्षुदादिकं वा हातुं न प्रवर्त्तते । प्रवृत्ती वा मोहवत्वप्रसङ्गः, तथाहि-यस्तदादातुं हातुं वा प्रवर्त्तते स मोहवान् यथाऽस्मदादिः, तथा चायं श्वेतपटाभिमतो जिन इति । २० तथा च कुतोऽस्याप्तता रथ्यापुरुषवत् ?
न चेयं वुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्यैव कार्यम् , येनात्यन्तव्यावृत्तव्यामोहेप्यस्याः सम्भवः। भोक्तुमिच्छा हि बुभुक्षा, सा कथं वेदनीयस्यैव कार्यम् ? इतरथा योन्यादिषु रन्तुमिच्छा रिरंसा तत्कार्य स्यात् । तथा च कवलाहारवत् स्यादावपि तत्प्र२५वृत्तिप्रसङ्गानेश्वरादस्य विशेषः । यथा च रिरंसा प्रतिपक्षभाव
नातो निवर्त्तते तथा बुभुक्षापि । प्रयोगः-भोजनाकाङ्क्षा प्रतिपक्षभावनातो निवर्तते आकाङ्क्षात्वात् स्याद्याकाङ्क्षावत् । नन्वस्तु तद्भावनाकाले तन्निवृत्तिः, पुनस्तद्भावे प्रवृत्तिरित्येतत् ख्याद्याकाङ्खायामपि समानम् । यथा चास्याश्चेतसः प्रतिपक्षभावनाम३० यत्वादत्यन्तनिवृत्तिस्तथा प्रकृताकाङ्क्षाया अपि।।
१ शुक्कुध्यानतपोमाहात्म्येन भगवता। २ फलदानासमर्थम् । ३ अघातिकर्मत्वस्य । ४ फलदानासमर्थम् । ५ कथमपास्तमित्युच्यते । ६ फलदानसमर्थानि न भवन्तीति चेत् । ७ तहत्यिध्याहियते । ८ इति सप्तानामभावेन परस्यानिष्टापादनम् । ९ नामगोत्रविशेषाणाम् । १० कर्मत्वेन। ११ आदिना त्रिवेदम् । १२ मतिशानस्य रागादेश्च । १३ इच्छा हि लोभभेदत्वेन मोहनीयस्य कार्यम् । १४ नरस्य ।