________________
सू० ११३] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खण्डनम्
३७
आवात् ? न तावत्स्पष्टाकार विकलत्वात्तस्याऽप्रामाण्यम् ; काचाभंकादिव्यवहितार्थदूरपादपोदिप्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात् । न चैतद्युक्तम् , अज्ञातवस्तुप्रकाशनसंवादलक्षणस्य प्रमाणलक्षणस्य सद्भावात् । प्रमाणान्तरत्वप्रसङ्गो वा अस्पष्टत्वालिङ्गजत्वाभ्यां प्रमाणद्वयानन्तसूतत्वात् । नापि गृहीतग्राहित्वात्। अनुमान-५ स्याप्यप्रामाण्यानुषङ्गात्, व्याप्तिज्ञानयोगिसंवेदनगृहीतार्थग्राहित्वात् । कथं वा क्षणक्षयानुमानस्य प्रामाण्यम्-शब्दरूपावभास्यध्यक्षावगतक्षणक्षयविषयत्वात् ? नच अध्यक्षेण धर्मिस्वारूपग्राहिणा शब्दग्रहणेपि न क्षणक्षयग्रहणम्; विरुद्धधर्माध्यासंतस्तद्भेदप्रसक्तेः। नाप्यसतिप्रवर्तनात् ; अतीतीनागतयोर्विकल्प-१० काँले असत्त्वेपि स्वकाले सत्त्वात् । तथाप्यस्याप्रामाण्ये-प्रत्यक्षस्याप्यप्रामाण्यानुषङ्गः तद्विषयस्यापि तत्कालेऽसत्त्वाविशेषात् । हिताऽहितप्राप्तिपरिहारासमर्थत्वादित्यसम्भाव्यम्; विकल्पादेवे. टार्थप्रतिपत्तिप्रवृत्तिप्राप्तिदर्शनात् अनिष्टार्थाच्च निवृत्तिप्रतीतेः । कदाचिदर्थप्रापकत्वाभावस्तु-प्रत्यक्षेपि समानोऽनर्थित्वादप्रवृत्त-१५ स्यायेप्रत्यक्षवत् । कदाचिद्विसंवादादित्यप्यसास्प्रतम् । प्रत्यक्षेप्यप्रामाण्यप्रसङ्गात्, तिमि धुपहतचक्षुषोऽसावधि प्रत्यक्षप्रवृत्तिदर्शनात् । भ्रान्ताद्धान्तस्य भेदोऽन्यत्रापि समानः । समारोपानिषेधकत्वादित्यप्यसङ्गतम्। विकल्पविपये समारोपासम्भवात् । नापि व्यवहारायोग्यत्वात्; सकलव्यवहागणां विकल्प-२० मूलत्वात् । स्खलक्षणाऽगोचरत्वादित्यप्यसमीक्षिताभिधानम् ; अनुमानेपि तत्प्रसक्तेः तद्वैत्तस्यापि सामान्यगोचरत्वात् । न च तबाह्यस्य सामान्यरूपत्वेप्यध्यवसेयस्य स्खलक्षणरूपत्वाद् दृश्यविकल्प्यावावेकीत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यम् : प्रकृतविकल्पेऽप्यस्य समानत्वात् । शब्दसंसर्गयोग्यप्रतिभामवादित्य-२५
१ स्फटिकजलादि । २ पर्वतादि । ३ पारमार्थिकं लक्षणमिदम् । ४ व्यावहारिकम् । ५ व्याप्तिशानं च तद्योगिसंवेदनं च। ६ सर्वश । ७ श्रावणाध्यक्षगृहीतार्थग्राहित्वात् । ८ श्रावणाध्यक्ष। ९ निर्विकल्पकेन। १० सर्व वस्तु क्षणिक सत्त्वात् । ११ तस्यैवग्रहणमग्रहणमिति । १२ शब्दधर्मिणः। १३ क्षणिकत्वधर्मस्य । १४ धर्मिरूपस्य वस्तुनः क्षणिक(कत्वं ) न भवतीत्यर्थः। १५ रावणशा चक्रवति । १६ अर्थयोः। १७ आगमशाने । १८ समकाले ग्रामग्राहकत्वाभावात्सव्येतरगोविषाणवत्। १९ प्रत्यक्ष । २० सादेः। २१ पुरुषस्य । २२ पदं जलमिति । २३ ईप् (सप्तमी, सप्तम्यर्थे मतुरित्यर्थः)। २४ रोग। २५ पुरुषस्य । २६ भ्रान्तविकल्पे। २७ अप्रामाण्य । २८ तस्य पूर्वानुभूततत्सदृशस्य । २९ सामान्यारोपोऽधिकरणं स्वलक्षणमध्यवसेयम् । ३० स्खलक्षण। ३१ स्थूल । ३२ पुरुषस्य । ३३ नील। ३४ न्यायस्य ।
प्र. क. मा० ४