________________
सू० २।१२] मोक्षस्वरूपविचारः न च निरन्वये चित्तसन्ताने बद्धस्य मुक्तिः। तत्र हन्यो बद्धोऽन्यश्च मुच्यते। __ सन्तानैक्यावद्धस्यैव मुतिरपीति चेत् : ननु यदि सँन्तानार्थः परमार्थसन् : तदात्मैव सन्तानशब्देनोक्तः स्यात् । अथ संवृतिसन्; तदैकस्य परमार्थसतोऽसत्त्वात् 'अन्यो बद्धोऽन्यश्च ५ मुच्यते इति मुक्क्यथ प्रवृत्तिन स्यात् । अथात्यन्दनानात्वेपि दृढतरैकत्वाध्यवसायाद् 'वद्धमात्मानं सोचयिष्यानि' इत्यभिसन्धानवतः प्रवृत्ते यं दोषः; न तर्हि नैरात्म्यदर्शनम् , इति कुतस्तन्निवन्धना मुक्तिः ? अथास्ति तदर्शनं शास्त्रसंस्कारजम् ; न त - कत्वाध्यवसायोऽस्खलद्रूप इति कुतो वद्धस्य मुत्यर्थं प्रवृत्तिः १८ स्यात् ? तथा च___ "मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [प्रमाणवा० २११९२] इति प्लॅवते । तस्मात्सान्वया चित्तसन्ततिरभ्युपगन्तव्या, सकलविज्ञानक्षणत्वेपि जीवाभावे वन्धमोक्षयोत्तदर्थ वा प्रवृत्तेरनुपपत्तेः । न चान्योन्यविलक्षणाऽपरापरचित्तक्ष-१५ णानामनुयायिजीवाभावो विरोधात् : इत्यभिधांतव्यम् : स्वसंवेदनप्रत्यक्षेण तत्रानुयायिरूपतया तस्य प्रतीतेः । प्रतीयमानस्य च कथं विरोधो नाम अनुपलम्भसाध्यत्वात्तस्य ?
तद्व्यापारे चासति आत्मनि प्रत्यभिज्ञानप्रत्ययस्य प्रादुर्भावो न स्यात् । अथात्मन्यप्यारोपितैकत्वविषयत्वादस्य प्रादुर्भावः, न;२० अस्यारोपितैकत्वविषयत्वे स्वात्मन्यनुमानाक्षणिकत्वं निश्चिन्वतो निवृत्तिप्रसङ्गात् , निश्चयाँरोपैमनसोविरोधात् । निवर्तत एवेति
१ पूर्वक्षणः । २ उत्तरक्षनः! ३ अपिशव्दाद्वन्धोपि । ४ बौद्धानां नते पूर्वतरक्षणानामेक आधारभूतः सन्तानः स अपरमार्थः सन्केवलः पूर्वक्षमः उत्तरक्षणः सन्तानी स तु परमार्थसन् । ५ कल्पनासन् । ६ आत्मनः। ७ क्षणानान् । ८ अभिप्रायवतः। ९ निर्विकल्पकस्य । १० भावना। ११ बद्धस्य मुत्त्यर्थ प्रवृत्त्यभावे च । १२ नैरात्म्यभावनालक्षणः । १३ विनश्यति। १४ अन्वयाभावे बन्धो मोक्षो वा न घटते यतः। १५ सद्व्या । १६ अन्यथा । १७ परेण । १८ पूर्वक्षणे अहमेव दुःखी उत्तरक्षणेऽहमेव सुखीति । १९ स्वसिन् । २० न केवलं बहिः। २१ संवृत्या। २२ चेदिति शेषः। २३ स्वरूपे। २४ यत्सत्तत्क्षणिकमित्यादि । २५ आरोपितैकत्वविषयस्य प्रत्यभिज्ञाप्रत्ययस्य । २६ अनुमानेन । २७ सोहं प्रत्यभिज्ञानरूपो विकल्पः। २८ मनः शानम् । २९ एकत्र। ३० अनुमानमनित्यत्वसाधने एकसिन्वस्तुनि प्रवृत्तं प्रत्यभिज्ञानं त्वेकत्वसाधने इति विरोधः। ३१ क्षणिकत्वनिश्चयसमये एकत्वविषयं प्रत्यभिज्ञानम् ।