________________
सू० २१४] : चक्षुःसन्निकर्षवादः
२२३ निर्गच्छन्तस्तत्संयोगिना न सम्बद्धास्तत्प्रकाशका वा न भवन्तीति प्रतीतम् । तथा चाञ्जनादेः प्रत्यक्षत एव प्रसिद्धः परोपदेशस्य दर्पणादेश्च तदर्थस्योपादानमदर्शकमेव स्यात् ।
किञ्च, यदि गोलकान्नित्यार्थलाभितस्वयार्थ ते प्रकाशयन्ति तई प्रति गच्छतां तैजलानां रूपस्पर्शविशेपवतां तेषामु-५ पलभः स्यात्, न चैवम्, अतो दृश्यानामनुपलस्मात्तेषामभावः । अथादृश्यास्तेऽनुद्भूतरूपस्पर्शवत्वात् ; न; अनुभूतरूपस्पर्शस्य तेजोद्रव्यस्याप्रतीतेः जलहेनोर्भासुररूपोपणस्पर्शयोरनुद्भूतिप्रतीतिरस्तीत्यसम्यक उभयानुभूतेस्तत्रौप्यप्रतिपत्तेः। दृष्टानुसारेण चादृष्टार्थकल्पना, अन्यथातिप्रसङ्गात् । तथाहि-रात्रौ १० दिनकरकराः सन्तोपि नोपलभ्यन्तेऽनुद्भूतरूपस्पर्शत्वाचथूरश्मिवत् । प्रयोगश्च-मार्जारादीनां चक्षुषा रूपदर्शनं वाह्यालोकपूर्वकम् तत्त्वादिवाऽसदादीनां तद्दर्शनवत् । ननु मार्जारादीनां चाक्षुषं तेजोस्ति, तत एव तत्सिद्धेः किं वाह्यालोककल्पनयेत्यन्यत्रापि समानम् । ननु यथा यदृश्यते तथा तत्कल्प्यते, दिवास्मदादीनां १५ चाक्षुपं सौर्य च तेजो विज्ञानकारणं दृश्यते तत्तथैवं कल्प्यते, रात्रौ तु चौक्षुषमेव, अतस्तदेव तत्कारणं कल्प्यते । ननु किं मनुष्येषु नायनरश्मीनां दर्शनमस्ति ? अथानुमेयास्ते; तर्हि रात्रौ सौर्यरश्मयोप्यनुमेयाः सन्तु । न च रात्रौ तत्सद्भावे नक्कञ्चराणामिव मनुष्याणामपि रूपदर्शनसङ्गः, विचित्रशक्तित्त्वाद्भावा-२० नाम् । कथमन्यथोलूकादयो दिवा न पश्यन्ति ? यी चात्रीलोकैः
१ बहिः । २ श्रीखण्डेन। ३ सम्वन्धे सति। ४ अञ्जनादिपरिज्ञानार्थम् । ५ रश्मयः। ६ भासुर। ७ उष्ण। ८ रश्मीनाम् । ९ इति चेन्नेत्यर्थः । १० अप्रतीति परिहरति परः । ११ एकस्मिन्नुष्णोदकलक्षणे हेमलक्षणे वा तैजसद्रव्ये । १२ यदैकसिंस्तजोद्रव्ये उभयानुभूतिर्न दृष्टा तथापि चक्षूरश्मिभयानुभूतिः करप्यते इत्युक्ते आह । १३ अदृष्टानुसारेणादृष्टार्थकल्पना यदि स्यात् । १४ रात्रौ । १५ नरनेत्रे। १६ मनुष्याणां चाक्षुषं तेजोस्ति तत एव तत्सिद्धेः किं बाह्यालोककल्पनया । १७ कारणत्वेन । १८ तेजः। १९ कारणत्वेन। २० मार्जारादीनाम् । २१ रूपदर्शनकारणम् । २२ प्रतीतिः । २३ येनैवं परिहारः परेणोच्यते । न सन्तीत्यर्थः । २४ परः। २५ सौर्यरश्मिसद्भावात् । २६ कथं विचित्रशक्तित्वम् ? रात्री विद्यमानाः सौर्यरश्मयो नक्तञ्चराणां रूपज्ञानहेतवो न मनुष्याणामिति । २७ सौर्यरश्मीनाम्। २८ भावानां विचित्रशक्तित्वं न स्याद्यदि। २९ परमते । ३० दिवसे । ३१ धूकानाम् ।