________________
सू० ३।१०१] अपोहवादः
४४३ तत्रानन्त्येन सङ्केतासम्भवाच्च । विकल्पबुद्धावध्याहृत्य तेषु सङ्केताभ्युपंगमे विकल्पसमारोपितार्थविषय एव शब्दसङ्केतः, न परमार्थवस्तुविषयः स्यात् । स्थिरैकरूपत्वाद्धिमाचलादिभावानां सङ्केतव्यवहारकालव्यापकत्वेन संमयसम्भवोप्यसम्भाव्यः तेषामप्यनेकाणुप्रचयखभावानां प्रादुर्भावानन्तरमेवावर्गितया तद-५ सम्भवात्।
किञ्च, एतेषु समयः क्रियमाणोऽनुत्पन्ने क्रियेत, उत्पनेषु वा ? न तावदनुत्पन्नेषु परमार्थतः समयो युक्तः; असतः सर्वोपाख्यारहितस्याधारत्वानुपपत्तेः । नाप्युत्पन्नेषुः तस्यार्थानुभवशब्दस्सरणपूर्वकत्वात् , शब्दस्सरणकाले चार्थस्य प्रध्वंसात् । १० सर्वेषां खलक्षणक्षणानां सादृश्यमैक्येनाध्यारोप्य सङ्केतविधाने सिद्धं स्खलक्षणस्याऽवाच्यत्वम् वुद्ध्यारोपितसादृश्यस्यैवाभिधानरभिधानात् । वाच्यत्वे वा शब्दबुद्धेः स्पष्टप्रतिभासप्रसङ्गः, न चैवम् । न खलु यथेन्द्रियवुद्धिः स्पष्टप्रतिभासा प्रतिभासते तथा शब्दवुद्धिः। प्रयोगश्च-यो येत्कृते प्रत्यये न प्रतिभासते न स १५ तस्यार्थः यथा रूपशब्दप्रभवप्रत्यये रसाप्रतिभासने नासौ तदर्थः, न प्रतिभासते च शाब्दप्रत्यये स्खलक्षणमिति । उक्तञ्च
"अन्यथैवाग्निसम्बन्धादोहं ग्धो हि मन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ १॥"
[वाक्यप० २२४२५] २० न चैकस्य वस्तुनो रूपयमस्ति, येनास्पष्टं वस्तुगैतमेव रूपं शब्दैरभिधीयेत ऐकस्य द्वित्वविरोधात् । तन्न स्खलक्षणे सङ्केतः ।
• १ यो यो गोशब्दः स स मुण्डवाचक इति । २ व्यक्तिषु। ३ गोशब्दस्य । ४ सर्वव्यक्तयो गोशब्देन वाच्या इति आरोप्य। ५ जैनादिना। ६ बसः। ७ बसः। ८ पदार्थानाम् । ९ सङ्केत । १० विनाशितया। ११ शाबलेयादिविशेषेषु । १२ अजातेषु । १३ उपाख्या स्वभावः। १४ समयस्य । १५ अयमस्य शब्दस्य वाच्य इति । १६ त्रिकालत्रिलोकोदरवर्तिनाम् । १७ सदृशापरापरोत्पत्त्या यत्सादृश्यम् । १८ अभेदेन। १९ अङ्गीक्रियमाणे जैनादिना । २० शब्देन । २१ आरोपितसामान्यस्यैव वाच्यत्वं शब्देन यतः । २२ शब्दैः जातायाः । २३ स्वलक्षणस्य ! २४ उपर्युक्तसमर्थनम् । २५ नेत्रादि । २६ स्वलक्षणरूपोर्थः । २७ स्पष्टत्वेन । २८ यसः। २९ स्पर्शनेन्द्रियेण । ३० साक्षात् । ३१ (नहि) दाहमित्युक्ते मुख्यं दह्यते । ३२ पुमान् । ३३ अस्पष्टत्वेन। ३४ स्पष्टत्वास्पष्टत्वे । ३५ युक्तिसिद्धम् । ३६ स्पष्टास्पष्टत्वलक्षणम् । ३७ रूपस्य । ३८ परमार्थभूतः।