________________
सू० ३।९९] शब्दनित्यत्ववादः
. ४०५ चीनम् : सादृश्येन ततोऽप्रतिपत्तेः । न हि सदृशतया शब्दः प्रतीयमानो वाचकत्वेनाध्यवसीयते किन्त्वेकत्वेन । य एव हि सम्बन्धग्रहणसमये मया प्रतिपन्नः शब्दः स एवायमिति प्रतीतेः।
किञ्च, सादृश्यादर्थप्रतीतो प्रान्तः शाब्दः प्रत्ययः स्यात् । न ह्यन्यस्मिन्नगृहीतसङ्केतेऽन्यस्मादर्थप्रत्ययोऽभ्रान्तः, गोशब्दे ५ गृहीतसङ्केतेऽश्वशवदाइवार्थप्रत्ययेऽभ्रान्तत्यप्रसङ्गात् । न च भूयोऽवयवत्तास्ययोगस्वरूपं साहश्यं शब्दे सम्भवति विशिष्टवर्णात्मकत्वाच्छब्दानां वर्णानां च निरवयवत्वात् ! द चत्वादिविशिष्टानां गादीनां वाचकत्वं युक्तम् ; गत्वादिसामान्यस्याऽभावात् , तदभावश्च गादीनां नानात्वायोगात्, सोपि प्रत्यभिशया १० तेषामेकत्वनिश्चयात् । न चात्र प्रत्यभिज्ञा सामान्यनिवन्धना: भेर्दै निष्ठस्य सामान्यस्यैव गौदिष्वसम्भवात् ।
किञ्च, गत्वादीनां वाचकत्वम् , गादिव्यक्तीनां वा? न तावद्गत्वादीनाम् ; नित्यस्य वाचकत्वेऽस्मन्मताश्रयणप्रसङ्गात् । नापि गादिव्यक्तीनाम् ; तथा हि-गादिव्यक्तिविशेपो वाचकः, व्यक्तिमा वा ? १५ न तावदादिव्यक्तिविशेषः तस्यानन्वयात् । नापि व्यक्तिमात्रम् : तद्धि सामान्यान्तःपाति, व्यत्यन्तर्भूतं वा ? सामान्यान्तःपातित्वे स एवास्मन्मत4वेशः । व्यत्यन्तर्भूतत्वे तदवस्थोऽनन्वयदोष इति। ततोऽर्थप्रतिपादकत्वान्यथानुपपत्तेर्नित्यः शब्दः। तदुक्तम्___"अर्थापत्तिरियं चोक्ता पक्षधर्मादिवर्जितौ।
१ उत्तरः। २ एकत्वान्नित्यत्वम् । ३ ज्ञानम् । ४ शब्दे। ५ शब्दात् । ६ अन्यत्वाऽविशेषात् । ७ अन्यथा। ८ नष्टे सति । ९ गृहीतसङ्केतशब्दस्य नष्टत्वात् । १० बहु। ११ सम्बन्ध । १२ सामान्यम् । १३ सादृश्यधर्मरहितैकत्वधर्मः, स एव विशेषस्तनोपलक्षितो वर्णः, स आत्मा स्वरूपं यस्य शब्दस्य । १४ वर्णानां पुद्गलात्मकत्वात् शब्दस्य च वर्णात्मकत्वाच्छब्दे तथाविधं सादृश्यं भविष्यतीत्यारेकायामाह । १५ निरंशत्वात् । अंशाभावे किं केन सादृश्यं स्यात् ।। १६ अत्वादिना च । १७ अकारादीनां च। १८ अनेकसमवेतत्वात्सामान्यस्य । १९ स एवायं गकार इति । २० गत्वादि । २१ विशेष । २२ अभेदरूपेषु। २३ गकार एक एवेति गभेदाभावात् । २४ सामान्यरूपाणाम् । २५ अन्यथानुपपत्तिरसिद्धत्युक्ते आह । २६ गोपिण्डस्य । २७ मीमांसक । २८ सङ्केतकाले गृहीतस्य शब्दस्य व्यवहारकाले आगमनाभावात् सङ्केतव्यवहारशब्दयो दो यतः। २९ सामान्यस्य नित्यत्वात् । ३० विपक्षेऽनित्यत्वे शब्दस्यार्थप्रतिपादकत्वं न घटते यतः । ३१ वाचकसामर्थ्यमित्यर्थः ३२ आदिना सपक्षे सत्त्वम् । ३३ अर्थापत्तौ पक्षधर्मादीनां प्रयोजनं नास्ति यतः ।