________________
३८६
प्रमेयक्रमलमार्तण्डे [३. परोक्षपरि० अथोपलब्धि व्याख्यावेदानीमनुपलब्धि व्याचष्टे । सा चानपलन्धिरुपलब्धिरदिप्रकारा भवति । अविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्चेति । तत्राद्यप्रकारं व्याख्यातुकामोऽविरुद्धत्याद्याहअविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभाव
व्यापककार्यकारणपूर्वोत्तरसह
चरानुपलम्भभेदादिति ॥७॥ प्रतिषेध्येनाविरुद्धस्यानुपलब्धिः प्रतिषेधे साध्ये सप्तधा भवति । स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धि
भेदात् । १० तत्र स्वभावानुपलब्धिर्यथा
नास्त्यत्र भूतले घट उपलब्धिलक्षण
प्राप्तस्यानुपलब्धेः॥ ७९ ॥ पिशाचादिभिर्व्यभिचारो मा भूदित्युपलब्धिलक्षणप्रातस्पेति विशेषणम् । कथं पुनर्यो नास्ति स उपलब्धिलक्षणप्राप्तस्तत्प्राप्तत्वे १५ वा कथमसत्त्वमिति चेदुच्यते-आरोप्यैतद्रूपं निषिध्यते संवत्री
रोपितरूपविषयत्वान्निषेधस्य । यथा 'नाय गौरः' इति । न ह्यत्रैतच्छक्यं वक्तुम्-सति गौरत्वे न निषेधो निषेधे वा न गौरत्वमिति । जन्म दृश्यमपि पिशाचादिकं दृश्यरूपतयाऽऽरोप्य प्रतिषेध्यतामिति चेन्न; आरोपयोग्यत्वं हि यस्यास्ति तस्यैवा.
रोपः । यश्चार्थो विद्यमानो नियमेनोपलभ्येत स एवारोपयोग्यः, २० न तु पिशाचादिः । उपलम्भकारणसाकल्ये हि विद्यमानो घटो नियमेनोपलम्भयोग्यो गम्यते, न पुनः पिशाचादिः । घंटस्योपलम्भकारणसाकल्यं चैकज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमाने निश्चीयते । धेटप्रदेशयोः खलूपलम्भकारणान्य विशिष्टानीति ।
१ व्याप्य। २ प्रतिषेध्येन घटेनाविरुद्धः कः तत्स्वभावो घटस्वभाव इत्यर्थः । ३ कृतम् । ४ प्रकल्प्य घटसम्बन्धित्वेन भूतलम् । ५ क्वचिदपि न निषेध्यस्यारोपितरूपविषयत्वमित्युक्ते आह । ६ वस्तुनि। ७ आरोपितस्य प्रतिषेध्यत्वे । ८ विद्यभानत्वे पिशाचादिरप्युपलभ्येतेत्युक्ते आह। ९ पिशाचादिरप्यारोपयोग्यः कुतो न स्यादित्युक्ते आह । १० प्रत्यक्ष । ११ इन्द्रियालोकादिना। १२ निषेध्यस्य घटस्य कथमुपलम्भकारणसाकल्यं निश्चीयत इत्युक्ते आह। १३ इन्द्रिय । १४ घटेन । १५ घटस्योपलम्भकारणसाकल्यं च न स्यात् एकज्ञानसंसर्गिपदार्थान्तरोपलम्भश्च भवि.. व्यतीत्युक्ते आह । १६ समानानि ।