Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 845
________________ सू० ६७३] सप्तभंगीविवेचनम् निष्टौ प्रतिनियतस्वरूपोऽसंभवाद्वस्तुप्रतिनियमविरोधः स्यात् । एतेनै क्रमार्पितोभयंत्वादीनां वस्तुधर्मत्वं प्रतिपादितं प्रतिपत्तव्यम् । तद्भावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारविरोधात्, सहाऽवक्तव्यत्वोपलक्षितोत्तरधर्मत्रयविकल्पस्य शब्दव्यवहारस्य चासत्त्वप्रसङ्गात् । न चामी व्यवहारा निर्विषया एव; वस्तुप्र-५ तिपत्तिप्रवृत्तिप्रातिनिश्चयात् तथाविधरूपादिव्यवहारवत् । ननु च प्रथमद्वितीयधर्मवत् प्रथमतीयोदिया क्रमेतरार्पितानां धर्मान्तरत्वलिद्धेर्न लतविधधमनियमः लिज्येत् : इत्यायसुन्दरम् ; क्रमाप्तियोः प्रथमतृतीयधर्मयोः धर्मान्तरत्वेनाऽप्रतीतेः, सत्त्वद्वयस्यासम्भवाद्विवक्षितवरूपादिना सत्त्वस्यैकत्वात् ११० तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य सम्भवे विशेषादेशात् तत्त्रतिपक्षभूतासत्त्वस्याप्यपरस्य सम्भवादपरधर्मसप्तकसिद्धिः(द्धेः) सप्तभयन्तरसिद्धितो न कश्चिदुपालम्भः। एतेन द्वितीयतृतीयधर्मयोः क्रमाप्तियोर्धर्मान्तरत्वमप्रातीतिक व्याख्यातम् । कथमेवं प्रथमचतुर्थयोर्द्वितीयेचतुर्थयोस्तृतीयेचतुर्थयोश्च सहितयोधर्मा-१५ न्तरत्वं स्यादिति चेत् ? चतुर्थेऽवक्तव्यत्वधर्मे सत्त्वासत्त्वयोरपरामर्शात् । न खलु सहार्पितयोस्तयोरवक्तव्यशब्देनाभिधानम् । किं तर्हि ? तथापितयोस्तयोः सर्वथा वक्तुमशक्तेरवक्तव्यत्वस्य धर्मान्तरस्य तेन प्रतिपादन मिष्यते । न च देव सहितस्य सत्त्वस्यासत्वस्योभयस्य वाऽप्रतीतिधर्मान्तरत्वासिद्धिा, प्रथमे भङ्गे २० सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये त्वसत्त्वस्य, तृतीये क्रमार्पितयोः सत्त्वासत्त्वयोः, चतुर्थे त्ववक्तव्यत्वस्य, पञ्चमे १ परेण। २ पृथुबुनोदराद्याकारः सास्लादिमत्त्वादिा प्रतिनियतस्वरूपः । ३ सत्त्वासत्त्वयोर्वस्तुधर्मत्वसमर्थनपरेण ग्रन्थेन। ४ सहार्पितोभयत्वादीनां च । ५ अवक्तव्यं सदवक्तव्यमऽसदवक्तव्यमुभयाऽवक्तव्यं चेति । ६ ननु येभ्यः शब्दव्यवहारेभ्योऽन्यथानुपपत्त्या क्रमार्पितोभयत्वाद्वयः पञ्च धर्मा अवस्थाप्यन्ते ते निर्विषया एवातः कथं तेभ्यस्तत्सिद्धिरित्यारेकायामाह। ७ तथाविधः प्रतिपत्तिप्रवृत्तिमाप्तिनिश्चयहेतुभूतः। ८ तस्यापि निर्विषयत्वे सकलप्रत्यक्षादिव्यवहारापह्नवान्न कस्यचिदिष्टतत्त्वव्यवस्था स्यात् । ९ आदिना द्वितीयतृतीयादिग्रहः । १० युगपत् । ११ मनुष्यस्वरूपे स्वद्रव्यक्षेत्रकालभावाः स्वरूपम् , आदिना पररूपसंग्रहः, ते च यतः परकीया द्रव्यादयः। १२ एकजीवस्य । १३ तस्मात् । १४ अन्यस्य देवादेः। १५ भवान्तरापेक्षया। १६ पर्यायकथनात् । १७ सः द्वितीयसत्त्वः । १८ बसः। १९ प्रथमतृतीयधर्मयोधर्मान्तरत्वनिराकरणेन। २० इति। २१ प्रथमतृतीयादिप्रकारेण । २२ स्यादस्त्यवक्तव्यमिति । २३ स्यान्नास्त्यवक्तव्यमिति । २४ स्यादस्ति नास्त्यवक्तव्यमिति । २५ अप्रतीतेः ।

Loading...

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921