Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 861
________________ परीक्षामुखसूत्रपाठः ६९९ ३७ एतद्वयमेवानुमानाङ्गं नोदाहरणम् । ३८ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् । ३९ तदविनाभावनिश्चयार्थं वा विपक्षे वाधकादेव तत्सिद्धः । ३७५ ४० व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्ताव नवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् । ४१ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः। ४२ तत्परमभिधीयमानं साध्यर्मिणि साध्यसाधने सन्देहयति । ४३ कुतोऽन्यथोपनयनिगमने । ४४ न च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् । ४५ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् : ४६ बालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ।। ४७ दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदात् । ४८ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः । ४९ साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । ५० हेतोरुपसंहार उपनयः । ५१ प्रतिज्ञायास्तु निगमनम् । ५२ तदनुमानं द्वधा । ५३ स्वार्थपरार्थभेदात् । ५४ स्वार्थमुक्तलक्षणम् । ५५ परार्थं तु तदर्थपरामर्शिवचनाज्जातम् । ५६ तद्वचनमपि तद्धेतुखात् ।। ५७ स हेतुद्वैधोपलब्ध्यनुपलब्धिमेदात् । ५८ उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च । ५९ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् । ,, ६० रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिवन्धकारणान्तरावैकल्ये । ६१ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः। ३८० ६२ भाव्यतीतयोमरणजाग्रबोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् । ३८१ ६३ तद्व्यापाराश्रितं हि तद्भावभावित्वम् । ६४ सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच । ६५ परिणामी शब्दः, कृतकलात् , य एवं स एवं दृष्टो यथा घटः, कृतकश्चायम् , तस्मात्परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्चायम् , तस्मात्परिणामी। ६६ अस्त्यत्र देहिनि बुद्धिाहारादेः । ६७ अस्त्यत्र छाया छत्रात् । ६८ उदेष्यति शकटं कृत्तिकोदयात् । " ३८४

Loading...

Page Navigation
1 ... 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921