Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang
View full book text
________________
सू० ६१७३ जय-पराजयव्यवस्था
६५७ साध्यसाधनभावासम्भवात्सह्यविन्ध्यवत्' इत्यहेतुसमत्वेन प्रत्यवस्थानमयुक्तम् हेतोः प्रत्यक्षतो धूमादेवन्ह्यादौ प्रसिद्धेरिति ।
"अर्थापत्तितःप्रतिपक्षसिद्धरापत्तिसमा जातिः।” [न्यायसू० ५।११२१] यथात्रैव साधने प्रयुक्त परः प्राह-'यदि प्रयत्नानन्तरीयकत्वेनानित्यः शब्दो घटवत्तदार्थापत्तितो नित्याकाशसाधा-५ नित्योस्तु यथैव ह्यस्पर्शवत्वं खे नित्ये दृष्टं तथा शब्देपि' इति ।
अस्याश्च दूषणामालत्वम; सुखादिनाकान्तिकत्वात् । नचानैकान्तिकाद्धेतोः प्रतिपक्षसिद्धिरिति ।
“एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सत्त्वोपपत्तितो. ऽविशेषसमा जातिः।" [ न्यायसू. ५।११२३ ] यथात्रैव लाधले १० प्रयुक्ते परः प्रत्यवतिष्ठते-प्रयत्नानन्तरीयकत्वलक्षणैकधर्मोपपत्तेघंटशब्दयोरनित्यत्वाविशेषे सत्त्वधर्मस्याप्यखिलार्थेषपपत्तरनित्यत्वाविशेषः स्यात् ।
तस्याश्च दूषणाभासता; तथा साधयितुमशक्यत्वात् । न खलु यथा प्रयत्नानन्तरीयकत्वं साधनधर्मः साध्यमनित्यत्वं शब्दे १५ साधयति तथा सर्वार्थे सत्त्वम्, धर्मान्तरस्यापि नित्यत्वस्याकाशादी सत्ते सत्युपलम्भात् , प्रयत्नानन्तरीयकत्वे च सत्यऽ नित्यत्वस्यैवोपलम्भादिति।
"उभयकारणोपपत्तेरुपपत्तिसमा जातिः।" [न्यायसू० ५।२१ २५] यथात्रैव साधने प्रयुक्त परः प्राह-'यद्यनित्यत्वे कारणं २० प्रयत्नानन्तरीयकत्वं शब्दस्यास्तीत्यनित्योसौ तदा नित्यत्वेप्यस्य कारणमस्पर्शवत्त्वमस्तीति नित्योप्यस्तु' इत्युभयस्य नित्यत्वस्थानित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमो दूषणाभासः । एवं ब्रुवता वयमेवानित्यत्वकारणं प्रयत्नानन्तरीयकत्वं तावदभ्युपगतम् । एवं तदभ्युपगमाच्चानुपपन्नस्तत्प्रतिषेध इति । २५
"निर्दिष्टंकारणाभावेप्युपलम्भादुपलब्धिसमा जातिः।" [न्यायसू० ५।१२२७ ] यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-'शाखा. दिभङ्गजे शब्दे प्रयत्नानन्तरीयकत्वाभावेप्यनित्यत्वमस्ति' इति ।
दूषणाभासत्वं चास्याः; प्रकृतसाधनाप्रतिबन्धित्वात् । न खलु ३० 'साधनमन्तरेण साध्यं न भवति इति' नियमोस्ति, साधनस्यैव
१ अर्थापत्त्या प्रत्यवस्थानम् । २ घटसाधयेण। ३ अनित्येन । ४ अल्पविस्थादिति । ५ परेणाङ्गीक्रियमाणे । ६ यथा सर्वार्थेषु साधनधर्मः सत्त्वमनित्यत्वं न साधयति तथा प्रयत्नानन्तरीयकत्वसाधनधर्मोऽनित्यत्वं न साधयतीत्युक्ते सत्याह। ७ निर्दिष्टस्य साध्यधर्मसिद्धिकारणस्याभावेपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम्। ८ साध्यस्य ।

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921