________________
सू० ३११०१] अपोहवादः लिङ्गम् । नापि शब्दः, अर्थपक्षोक्तदोषानुषङ्गात् । ततो नित्यसम्वन्धस्य प्रमाणतोऽप्रसिद्धेर्न तद्वशावेदोऽर्थप्रतिपादकः।
अथ स्वभावादेवासौ तत्प्रतिपादकः; तन्न; 'अयमेवास्माकमों नायम्' इति वेदेलानुक्तेः । तदुक्तम्
"अयमों नायमर्थ इति शब्दा वदन्ति न। कल्पयोयमर्थः पुरुषैत्ते च रागादिविलुताः ॥ १॥"
प्रमाणवा० ३६३१२] इति । ततो लौकिको वैदिको वा शब्दः सहजयोग्यतासङ्केतवशादेवार्थप्रतिपादकोऽभ्युपगन्तव्यः प्रकारान्तरासम्भवात् ।
ननु चार्थप्रतिपादकत्वमेषामसम्भाव्यम् , य एव हि शब्दाः१० संत्यर्थे दृष्टास्ते एवातीतानागतादौ तदभावेपि दृश्यन्ते । यदभावे च यदृश्यते न तत्तत्प्रतिवद्धम् यथाऽश्वाऽभावेपि दृश्यमानो गौर्न तत्प्रतिवद्धः, अर्थाभावेपि दृश्यन्ते च शब्दाः, तन्नैतेऽर्थप्रतिपादकाः, किन्त्वन्यापोहमात्राभिधायकाः। तदप्यविचारितरमणीयम् ; अर्थवतः शब्दात्तद्रहितस्यास्यान्यत्वात् । न चान्यस्य व्यभि-१५ चारेऽन्यस्याप्यसौ युक्तः, अन्यथा गोपालघटिकादिधूमस्याग्निव्यभिचारोपलम्भात्पर्वतादिप्रदेशवर्तिनोपि स स्यात्, तथा च कार्यहेतवे दत्तो जलांजलिः। सकलशून्यता च, स्वप्नादिप्रत्ययानां क्वचिद्विभ्रमोपलम्भतो निखिलप्रत्ययानां तत्प्रसङ्गात् । 'यत्नतः परीक्षितं कार्य कारणं नातिवर्त्तते' इत्यन्यत्रापि समानम्-'यनतो२० हि शब्दोर्थवत्वेतरस्वभावतया परीक्षितोर्थ न व्यभिचरति' इति । तथा चान्यापोहमात्राभिधायित्वं शब्दानां श्रद्धामात्रगम्यम् ।
किञ्च, अन्यापोहमात्राभिधायित्वे प्रतीतिविरोधः-गवादिशब्देभ्यो विधिरूपावसायेन प्रत्ययप्रतीते। अन्यनिषेधौत्राभिधायित्वे च तत्रैव चरितार्थत्वात्सास्नादिमतीर्थस्यातोऽप्रतीतेः२५ तद्विषयाया गवादिवुद्धर्जनकोन्यो ध्वनिरन्वेषणीयः । अथैकेनैव गोशब्देन बुद्धिद्वयस्योत्पादान्न परो ध्वनिम॒ग्यः, न; ऐकस्य विधिकारिणो निषेधकॉरिणो वा ध्वनेर्युगपद्विज्ञानद्वयलक्षणफला
१ सौगतः । २ विद्यमाने । ३ काले । ४ भा। ५ अपोह्यते व्यावय॑तेनेनाभावेनेति । ६ एव। ७ भिन्नत्वात् । ८ धूमात् । ९ परेण। १० कथम् । ११ अर्थे । १२ धूमादि। १३ अग्न्यादि । १४ शब्दे । १५ कथम् ? तथा हि । १६ व्यभिचाराभावे च। १७ कुतः। १८ अस्तित्वरूपनिश्चयेन । १९ श्वानादिमदर्थस्य । २० अगवादिन्यावृत्ति। २१ एव। २२ द्वितीयः। २३ शब्दः। २४ ध्वनेः। २५ गवाद्यस्तित्व। २६ अगवादिव्यावृत्ति।