Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 848
________________ ६८६ प्रमेयकमलमार्तण्डे [६. नयपरि० इत्यत्र समर्थितम् । अन्यथानुपपत्तिबलेनैव हि हेतोर्गमकत्वम् , सा चात्रास्त्येव एकान्तस्य प्रमाणागोचरतया विषयापरिच्छेदे समर्थनात् । एवं प्रतिपाद्याशयवशानिप्रभृतयोप्यवयवाः पत्र वाक्ये द्रष्टव्याः। तथाहि५ "चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः। यदित्थं न तदित्थं न यथाऽकिञ्चिदिति त्रयः॥१॥ तथा चेदमिति प्रोक्तौ चत्वारोऽवयवा मताः। तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥ २॥" [पत्रप० पृ० १०] १० चित्रमेकानेकरूपम्, तदेततीति चित्रात्-एकानेकरूपव्यापि अनेकान्तात्मकमित्यर्थः । सर्वविश्वयदित्यादिसर्वनामपाठापेक्षया यदन्तो विश्वशब्दो 'यत् अन्ते यस्य' इति व्युत्पत्तेः। तेन राणीयं शब्दनीयं विश्वमित्यर्थः । तदनेकान्तात्मकं विश्वमिति पक्षनिर्देशः । आरेका संशयः, सा अन्ते यस्येत्यारेकान्तःप्रमेयः १५"प्रमाणप्रमेयसंशय" [ न्यायसू० ॥१॥१] इत्यादिपाठापेक्षया, स आत्मा यस्य तदारेकान्तात्मकम् , तस्य भावस्तत्त्वं तस्मात् , इति साधनधर्मनिर्देशः। यदित्थं न भवति यच्चित्रान्न भवति तदित्थं न भवति आरेकान्तात्मकं न भवति यथाऽकिञ्चित्-न किञ्चित् अथवा अकिञ्चित् सर्वथैकान्तवाद्यभ्युपगतं तत्त्वम् । इति त्रयोs२० वयवाः पत्रे कचित्प्रयुज्यन्ते । तथा चेदमिति पक्षधर्मोपसंहारवचने चत्वारः। तस्मात्तथाऽनेकान्तव्यापीति निर्देशे पञ्चेति । , यञ्चेदं योगैः स्वपक्षसियर्थ पत्रवाक्यमुपन्यस्तम्- सैन्यलड्भार नाऽनन्तरानार्थप्रस्वापदाऽऽशैयतोऽनीकोनेनलड्युक् कुलोद्भवो वैषोप्यनैश्यतापस्तन्नऽनृरड्लजुत् परापरतत्ववित्त२५ दन्योऽनादिरवायनीयत्वत एवं यदीक्तत्सकलविद्वर्गवदेतञ्चैवमेवं तदिति पत्रम् । अस्यायमर्थः-इन आत्मा सकलस्यैहिकपारलौकिकव्यवहारस्य प्रभुत्वात् , सह तेन वर्तते इति सेनः । स एव चातुर्वर्ष्यादिवत्वार्थिके ध्यणि कृते "सैन्यम्' इति भवति । तस्य लड्-विलासः, तं भजते सेवते इति सैन्यलनाक्-'देहः' १.जैनैः। २ सर्वथा नित्यस्य क्षणिकस्य वा वस्तुनः। ३ अत सातत्यगमने । ४-खरविषाणवद ।५-आरेकान्तात्मकम् । ६. देहः। ७.प्रबोधकारीन्द्रियादिकारणकलापः। ८ आसमुद्रात् । ९ मिरिनिकरो भुवनसन्निवेशश्च । १० इनलड्युक्= सूर्याचन्द्रमसौ। ११ पृथिव्यादिकार्यद्रव्यसमूहः। १२ वक्ष्यते स्वयमेवामेस्वार्थः । १३ शानभोगादिपदार्थः । १४ लड विलासे ।।

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921