________________
see प्रमेयकमलमार्तण्डे [४. विषयपरि० परापरविर्तव्यापिद्रव्यमूर्खता वृद्धिव
स्थालादिषु ॥६॥ सामान्यमित्यभिसम्बन्धः । तदेवोदाहरणद्वारेण स्पष्टयतिमृदिव स्थासादिएं। ५ नंनु पूर्वोत्तरविवर्त्तव्यतिरेकेणापरस्य तद्व्यापिनो द्रव्यस्याप्रतीतितोऽसत्त्वात्कथं तल्लक्षणमूर्खतासामान्यं सत्; इत्यप्यसमीची. नम् ; प्रत्यक्षत एवार्थानामन्वयिरूपप्रतीतेः प्रतिक्षणविशरारुतया खप्नेपि तत्र तेषां प्रतीत्यभावात् । यथैव पूर्वोत्तरविवर्त्तयोर्व्यावृत्तप्रत्ययादन्योन्यमभावः प्रतीतस्तथा मृदाद्यनुवृत्तप्रत्ययात्स्थि१० तिरथि
ननु कालत्रयानुयायित्वमेकस्य स्थितिः, तस्याश्वाऽक्रमेण प्रतीतौ युगपन्मरणावधि ग्रहणम् , क्रमेण प्रतीतौ न क्षणिका बुद्धिस्तथा तांप्रत्येतुं समर्था क्षणिकत्वात् ; इत्यप्ययुक्तम् । वुद्धेः क्षणिकत्वेपि
प्रतिपत्तुरक्षणिकत्वात् । प्रत्यक्षादिसहायो ह्यात्मैवोत्पाद्व्ययभ्रौ१५ व्यात्मकत्वं भावानां प्रतिपद्यते । यथैव हि घटकपालयोर्विनाशो
त्पादौ प्रत्यक्षसहायोसौ प्रतिपद्यते तथा मृदादिरूपतया स्थितिमपि । न खलु धेटादिसुखाँदीनां भेद एवावभासते न त्वेकत्वमित्यभिधातुंयुक्तम् । क्षणक्षयानुमानोपन्यासस्यानर्थक्यप्रसङ्गात्।
स ह्येकत्वप्रैतीति निरासार्थों न क्षणक्षयप्रतिपत्त्यर्थः, तस्य प्रत्यक्षे. २० णैव प्रतीत्यभ्युपगमात्।
१ पूर्वापरकालवत्ति त्रिकालानुयायीत्यर्थः। २ पर्यायरूपविशेषव्यापित्वादयक्तिनिष्ठत्वमूर्द्धतासामान्य सिद्धम् । ३ विवत्तेंषु। ४ तदेव जैनैरुपादानकारणं प्रोक्तं नैयायिकादिभिश्च समवायिकारणमुक्तमित्यर्थः । ५ सौगतः। ६ विद्यमानम् । १७ सर्वविवर्तानुगामी अन्वयी। ८ न केवलं जामदवस्थायाम् । ९ पूर्वविवर्तादुत्तरविवत्ततॊ व्यावृत्तः। १० भेदः। ११ बौद्धमते । १२ इदं मृद्रूपमिदं मृद्र्पमिति । १३ द्रव्यरूपपदार्थस्य । १४ सत्याम् । १५ यथा भवति तथा । १६ ज्ञानं स्यादात्मद्रव्यादेः। १७ आत्मनः। १८ अक्षणिक आत्मा स चेत्सदैव कथं न जानातीत्युक्ते आह । १९ आदिपदेन प्रत्यभिज्ञानादि । २० मृदादिपदार्थानाम् । २१ बाह्यपदार्थ । २२ आभ्यन्तरीयपदार्थ। २३ आदिना आत्मादीनाम् । २४ घटात्कपालं भिन्नं कपालाद्धटो भिन्न इति भेदः परस्परं तथा सुखदुःखादेरात्मा भिन्नस्तस्मात्सुखादि । भिन्नमिति भेदः परस्परम् । २५ अभिधीयते सौगतेन। २६ सर्वथा नास्तिरूपस्य निषेधो न घटते गगनकुसुमवत् । २७ सौगतेन ।
3
.G