________________
४९०
प्रमेयकमलमार्तण्डे ४. विषयपरि० संस्कारश्च कालान्तराविस्मरणकारणलक्षणधारणारूपः, तदर्शनकाले नास्तीति कथं तदैवास्योत्पत्तिः प्रत्यभिज्ञानस्य वा? तद्त्पत्तों हि देर्शनं पूर्वदर्शनाहितसंस्कारप्रवोधप्रभवस्मृतिसहायं प्रवर्त्तते, तच्च प्रान्नास्तीति कथं तदैव तदुत्पत्तिः ? ५ अथ सतम्-आत्मनः केवलस्यैवातीताद्यर्थग्रहणसामर्थ्य स्मरगाद्यपेक्षावैयर्थ्यम् , तदसामर्थ्य वा नितरां तद्वैयर्यम्, न खल केवलं चक्षुर्विज्ञानं गन्धग्रहणेऽसमर्थ सत्तत्स्मृतिसहायं समर्थ दृष्टमिति; तदप्यसङ्गतम् ; यतः स्मरणादिरूपतया परिणतिरेवा
मनोऽतीताद्यर्थग्रहण सामर्थ्यम् , तत्कथं तदपेक्षावैयर्थ्यम् ? चक्षु१० विज्ञानस्य तु गन्धग्रहणपरिणामस्यैवाभावान्न तत्स्मृतिसहायस्यापि गन्धग्रहणे सामर्थ्य मिति युक्तमुत्पश्यामः ।
ततो निराकृतमेतत्-पूर्वोत्तरक्षणयोरग्रहणे कथं तत्र स्थानताप्रतीतिः' इति; आत्मना तयोर्ग्रहणसम्भवात् । भवतां तु तयोर
प्रतीतौ कथं मध्यक्षणस्य तत्राऽस्थास्नुताप्रतीतिरिति चिन्त्यताम् ? १५ पूर्वदर्शनाहितसंस्कारस्य मध्यक्षणदर्शनात्तत्क्षणस्मृतिस्तस्याश्च 'स इह नास्ति' इत्यस्थास्नुतावगमे स्थास्नुतावगमोप्येवं किन्न स्यात् ?
ननु चास्थास्नुता पूर्वोत्तरयोर्मध्येऽभावः तस्य वा तंत्र, स च तदात्मकत्वात्तद्रहणेनैव गृह्यते; तदप्यसारम् । तद्नतीतौ तनास्य २० अत्र वा तयोनिषेधस्याप्यसम्भवात् । न ह्यप्रतिपन्नघटस्य 'अत्र
घटो नास्ति' इति प्रतीतिरन्ति । कथं चैवं स्थास्नुता न प्रतीयेत? सापि हि पूर्वोत्तरयोर्मध्ये कथञ्चित्सद्भावस्तस्य वा तंत्र, स च तेंदात्मकत्वात्तद्हणेनैव गृह्येत।।
ननु स्थास्नुतार्थानां नित्यतोच्यते, सा च त्रिकालापेक्षा, तद२५ प्रतिपत्तौ च कथं तदपेक्षनित्यताप्रतिपत्तिः? तदसाम्प्रतम् वस्तुस्वभावभूतत्वेनान्यानपेक्षत्वान्नित्यतायाः, तथाभूतायाश्चास्याः प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन प्रतीतेः प्रतिपादनात् । न खलु स्वयं नित्यतारहितस्य त्रिकालेनासौ क्रियतेऽनित्यतावत् । न हि वर्त
१ कारणम् । २ द्वितीयम् । ३ तस्य प्रत्यक्षादिसहायरहितस्य । ४ क्षणिकबुद्ध्या। ५ अक्षणिकेन। ६ अयं मध्यक्षणस्तत्र नाभून भविष्यतीति प्रतीतिः। ७ परेण । ८ क्षण। ९ दर्शनम् अनुभवः। १० सकाशात् । ११ पूर्वदर्शनाहितसंस्कारस्य मध्यक्षणदर्शनात्तत्क्षणस्मृतिः, तस्याश्च स इह द्रव्यरूपेणास्तीति । १२ क्षणयोः । १३ क्षणे । १४ अभावः । १५ पूर्वोत्तरक्षणयोरभावात्मकत्वान्मध्यक्षणस्य । १६ द्रव्यरूपेण । १७ द्रव्यरूपेण । १८ द्रव्यरूपेण मध्यक्षणस्य । १९ अग्रे। २० पदार्थस्य ।