________________
प्रमेयकालमार्तण्डे [४. विषयपरि० "तादात्म्य चेन्मतं जोतेर्व्यक्तिजन्मन्यजातता। नाशेऽनाशश्च केनेष्टस्तद्वच्चानन्वयो न किम् ? ॥२॥ व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् ।। प्रागासीन च तद्देशे सा तया सङ्गता कथम् ? ॥३॥ व्यक्तिनाशे न चेन्नष्टा गता व्यत्यन्तरं न च । तच्छन्ये न स्थिता देशे सा जातिः केति कथ्यताम् ? ॥४॥ व्यक्ते त्योंदियोगेपि यदि जातेः स नेष्यते । तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ? ॥ ५॥"[ ] ततो यदुक्तं कुमारिलेन
"विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तेंडुवम् ॥ १ ॥ तो हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहते । न त्वैन्येन विना वृत्तिः सामान्यस्येह हुँष्यति ॥२॥"
[मी० श्लो० आकृति० श्लो० ३७-३८] १५ इति; तन्निरस्तम्; नित्यसर्वगतसामान्यस्याश्रयादेकान्ततो भिन्नस्याभिन्नस्य वाऽनेकदोषदुष्टत्वेन प्रतिपादितत्वात् । अनुगतप्रत्ययस्य च संदृशपरिणामनिवन्धनत्वप्रसिद्धः। स चानित्योsसर्वगतोऽनेकव्यक्त्यात्मकतयाऽनेकरूपश्च रूपादिवत्प्रत्यक्षत एव प्रसिद्धः। ततो भट्टेनायुक्तमुक्तम्
"पिण्डभेदेषु गोवुद्धिरेकगोत्वनिवन्धना। २० गवाभासकरूपाभ्यामेकगोपिण्डवुद्धिवत् ॥१॥"
[मी० श्लो० वनवाद श्लो० ४४] यञ्चेदमुक्तम्__"न शावलेयागोवुद्धिस्ततोऽन्योलम्बनापि वा ।
१ व्यक्त्या सह । २ तदा इति शेषः। ३ जातेः । ४ व्यक्तेः। ५ जातेः। ६ व्यक्तिवत्। ७ असाधारणता । ८ किन्तु स्यादेव। ९ सति । १० व्यक्तयन्तरात् । ११ जाति: जन्म । १२ आदिना विनाशग्रहणम् । १३ जात्यादियोगः । १४ तहीतिशेषः । १५ जातिव्यक्त्योः । १६ अभ्रान्तचेतसाम् । १७ सामान्यैन । १८ अनुगताकाराणाम्। १९ यैर्वादिभिः। २० ते। २१ नित्यमचलम् । २२ विषयेण विनोत्पत्तिः कथमित्युक्ते आह । २३ यतः। २४ समवायेन । २५ तादात्म्येन खभावाद्वर्तत इत्यर्थः । २६ व्यक्तेः सकाशात्। २७ एकत्वापत्तिन्यपदेशाभावादयोनेके। २८ सालादिमत्त्वेनायमनेन सदृश इति । २९ गौगौरिति । ३० गवाभासश्चैकरूपं च ताभ्याम् । एक (गौगौरित्याध्यात्मिककारण ) शानत्वादेकरूप(गोरूपपिण्ड बाह्यकारण )त्वाचेत्यर्थः। ३१ सामान्यनिबन्धनेति । ३१ ततोन्य खण्डादि । ३३ नेति संबन्धः ।