________________
-सू० ३११००] शब्दनित्यत्ववादः
त्वगग्राह्यत्वमन्ये च भागाः सूक्ष्माः प्रकल्पिता। तेषामदृश्यमानानां कथं च रचनाक्रमः ॥२॥ कीदृशाद्रचनामेदादर्णभेदश्च जायताम् । द्रवित्वेन विना चैपां संक्लेपः(संश्लेषः)कल्प्यते कथम् ॥३॥ आगच्छतां च विलेपो न भवेद्वायुना कथम् । लघवोऽवयवा हते निबद्धा न च केनचित् ॥ ४ ॥ वृक्षामिहतानां च विश्लेपो लोटवद्भवेत् । एकश्रोत्रप्रवेशे च नान्यया स्यात्पुनः श्रुतिः ॥ ५ ॥ न चावान्तरवर्णानां नानात्वस्यास्ति कारणम् । न चैकस्यैव सर्वासु गमनं दिक्षु युज्यते ॥६॥" १०
[मी० श्लो० शब्दनि श्लो० १०७-११२] इत्यादि । तद्व्यञ्जकवाय्वागमनेपि समानम् । शक्यते हि शब्दस्थाने वायुं पठित्वा 'वायोरागमनं तावद्दष्टं परिकल्पितम्' इत्याद्यभिधातुम् ।
किञ्च, अदृष्टकल्पनागौरवदोषो भवत्पक्ष एवानुषज्यते: १५ तथाहि-शब्दस्य पूर्वापरकोट्योः सर्वत्र च देशेऽनुपलभ्यमानस्य सत्त्वम्, तत्य चावारकाः स्तिमिता वायवः प्रमाणतोऽनुपलभ्यमानाः कल्पनीयाः, तदपनोदकाश्चान्ये, तेषां शक्तिनानात्वं कल्पनीयम् , नामैत्पक्षे । पौद्गलिकत्वं च यथावसरं गुणनिषेधप्रक्रमे प्रसाधयिष्यामः । तत्सिद्धं घटस्य चक्रादिव्यापारकार्यत्ववच्छब्दस्य २० ताल्वादिव्यापारकार्यत्वमिति साधूक्तम्-'आप्तवचनम्' इत्यादि।
नैनु शब्दार्थयोः सम्वन्धासिद्धेः कथमाप्तप्रणीतोपि शब्दोऽर्थे ज्ञानं कुर्याद्यत आप्तवचनानिवन्धनमित्यादि वचः शोभेतेत्याशङ्कापनोदार्थम् 'सहजयोग्यता इत्याद्याहसहजयोग्यतासङ्केतवशाद्धि शब्दादयः वस्तु- २५
प्रतिपत्तिहेतवः ॥ १००॥
१ अवयवाः। २ अदृष्टाः। ३ रचना वन्धः। ४ अदृष्टः । ५ भेदः। ६ वर्णोत्पत्तौ । ७ शब्दानां पुद्गलरूपाणाम् । ८ जनानाम् । ९ शब्दानां वायूनां च। १० जैनोत्ताः। ११ सम्वद्धाः। १२ कारणेन। १३ वर्णवायूत्पत्तौ । १४ पुद्गलरूपाणां वर्णानाम् । १५ एकस्य नरस्य । १६ नृणाम् । १७ अन्यापकः शब्दो जैनमते यतः। १८ मध्योत्पन्नानाम् । १९ नैयायिकस्य । २० गख । २१ जैनस्य । २२ ताल्लादिजनितशब्दाभिव्यञ्जकध्वनेः। २३ मीमांसकपक्षे । २४ व्यजकाः । २५ जैन। २६ सौगतः। २७ निराकरणार्थम् ।