Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang
View full book text
________________
६७०
प्रमेयकमलमार्तण्डे । ५. तदाभासपरि० "कार्यव्याखङ्गात्कथाविच्छेदो विक्षेपः।" [न्यायसू० ५।२।१९ ] सिसाधयिषितस्यार्थस्याऽशक्यसाध्यतामवसीय कालयापनार्थ यत्कर्त्तव्यं व्यासज्य कथां विच्छिनत्ति-इदं मे करणीयं परिहीयते. तस्मिन्नवसिते पश्चात्कथयिष्यामि । इत्यप्यज्ञानतो नार्थान्तरमिति ५प्रतिपत्तव्यम्। ___ "वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ।" [न्यायसू०५।२।२०] यः परेण चोदितं दोषमनुद्धृत्य ब्रवीति-भवत्पक्षेप्ययं दोषः समानः' इति, स खपक्षे दोषाभ्युपगमात्परपक्षे
दोषं प्रसजन् परमतमनुजानातीति मतानुशा नाम निग्रहस्थान१०मापद्यते । इत्यप्यज्ञानान्न भिद्यते एव । अनैकान्तिकता चात्र
हेतोः; तथाहि-तस्करोयं पुरुषत्वात्प्रसिद्धतस्करवत्' इत्युक्ते 'त्वमपि तस्करः स्यात्' इति हेतोरनैकान्तिकत्वमेवोक्तं स्यात् । स चात्मीयहेतोरात्मनैवानैकान्तिकत्वं दृष्ट्वा प्राह-भवत्पक्षेप्ययं दोषः समानः-त्वमपि पुरुषोसि इत्यनैकान्तिकत्वमेवोद्भाव १५ यतीति । ___ "हीनमन्यतमेनाप्यवयवेन न्यूनम्।” न्यायसू० ५।२।१२] यस्सिन्वाक्ये प्रतिज्ञादीनामन्यतमोऽवयवो न भवति तद्वाक्यं हीनं नाम निग्रहस्थानम् । साधनाभावे साध्यसिद्धेरभावात्, प्रतिज्ञादीनां च
पञ्चानामपि साधनत्वात् ; इत्यप्यसमीचीनम्; पश्चावयवप्रयोग२० मन्तरेणापि साध्यसिद्धेः प्रतिपादितत्वात् , पक्षहेतुवचनमन्तरे
णैव तत्सिद्धेरभावात् अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति । _ "हेतूदाहरणाधिकमधिकम्।” न्यायसू०५।२।१३] यस्मिन्वाक्ये द्वौ हेतू द्वौ वा दृष्टान्तौ तदधिक निग्रहस्थानम् ; इत्यपि वार्तम्; तथाविधाद्वाक्यात्पक्षप्रसिद्धौ पराजयायोगात् । कथं चैवं प्रमा२५ णसंप्लेवोभ्युपगम्यते ? अभ्युपगमे वाधिकत्वान्निग्रहाय जायेत । 'प्रतिपत्तिदाढ्य-संवादसिद्धिप्रयोजनसद्भावान्न निग्रहः' इत्यन्यत्रापि समानम् । हेतुना दृष्टान्तेन वैकेन प्रसाधितेप्यर्थे द्वितीयस्य हेतोदृष्टान्तस्य वा नानर्थक्यम्, तत्प्रयोजनसद्भावात् । न चैवैम
नवस्था; कस्यचित्तचिनिराकांक्षतोपपत्तेः प्रमाणान्तरवत् । कथं ३० चास्य कृतकत्वांदो स्वार्थिककप्रत्ययवचनम् , 'यत्कृतकं तदनि
१ शात्वा। २ स्वपक्षोक्तदोषमपरिहृत्य परपक्षेपि दूषणमुद्भावयतो मतानुशा नाम निग्रहस्थानम् । ३ वादी। ४ प्रतिवादिना। ५ स्वपक्षे । ६ सम्बन्धयन् । ७ वादी । ८ स्वयम् । ९ अनुमानस्य । १० अधिकस्य निग्रहस्थानत्वप्रकारेण । ११ एकस्मिप्रमाणविषये प्रमाणान्तरवर्तनं प्रमाणसंपवः। १२ परेण । १३ हेतुदृष्टान्तान्तरान्वेषणप्रकारेण । १४ अनुमाने । १५ अधिकनिग्रहस्थानवादिनः। १३ साधने ।

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921