________________
सू० ३११०१]
अपोहवादः
शब्दार्थः? अथान्यव्यावृत्या, तर्हि नापोहोपि शब्दाधिगम्यो मुख्यः। अनवस्था चे-तद्व्यावृत्तेरपि व्यावृत्त्यन्तरेणाभिधानात् । अथाऽवाच्यः, तर्हि 'अन्यशब्दार्थाऽपोहं शब्दः प्रतिपादयति' इत्यस्य व्याधीतः!
किञ्च, 'नोन्यापोहः अनन्यापोहः' इत्यादौ विधिरूपादन्य-५ द्वाच्यं नोपलभ्यते प्रतिषेधद्वयेन विधेरेबाध्यवसायाद ।
कश्चायमन्यापोहशब्दवाच्योों यत्रान्यापोहसंज्ञा स्यात् ? अथ विजातीयव्यावृत्तानर्थानाश्रित्यानुभवादिक्रमेण यदुत्पन्नं विकल्पज्ञानं तत्र यत्प्रतिभाति ज्ञानात्मभूतं विजातीयव्यावृत्ताकारतयाध्यवसितमर्थप्रतिविम्वकं तत्रान्यापोह इति संज्ञा । ननु १० विजातीयव्यावृत्तपदार्थानुभवद्वारेण शाब्दं विज्ञानं तथाभूतार्थाध्यवसाय्युत्पद्यते इत्यत्राविवाद एव । किन्तु तत्तथाभूतपारमार्थिकार्थग्राह्यभ्युपगन्तव्यमध्यवसायस्य पँहणरूपत्वात् । विजा'तीयव्यावृत्तेश्च समानपरिणामरूपवस्तुधर्मत्वेन व्यवस्थापितत्वान्नाममात्रमेव भिद्येत।
यच्चोक्तम्-"तत्प्रतिविम्बकं च शब्देन जन्यमानत्वात्तस्य कार्यमेवेति कार्यकारणभाव एव वाच्यवाचकभावः"
१ अपोहस्य विधिरूपेण वाच्यत्वात्सर्वशब्दार्थोऽपोह एव न भवतीत्यर्थः। २ अपोह। ३ न केवलं स्वलक्षणम्। ४ अन्यव्यावृत्तिरपि वाच्याऽवाच्या वा स्यात् ? अवाच्या तदाऽवाच्ययान्यव्यावृत्त्या कथमपोहो वाच्योतिप्रसङ्गात् । अथ वाच्या किं विधिरूपेणान्यव्यावृत्त्या वा ? न तावदिधिरूपेणोक्तदोषानुषङ्गात् । अथान्यव्यावृत्त्या अन्यव्यावृत्तिर्वाच्या चेत्तत्राप्यन्यव्यावृत्तिर्यथा वाच्या सापि वाच्याऽवाच्या वेत्यादिप्रकारेणानवस्था। ५ कुतः। ६ शब्देन । ७ अश्व। ८ यतः। ९ अश्वलक्षण। १० गौरिति । ११ मतस्य । १२ अपोहस्याऽवाच्यत्वात् । १३ सर्वेषां परस्परेण: व्यावृत्तिस्वभावो यतः। १४ अविधिरूपम् । वस्तु। १५ आदी यो नञ् स एकोपोहो द्वितीयेन तस्याप्यपोहः । दो नौ प्रकृतमर्थ गमयतः। १६ इति । १७ सङ्केतः । १८ कश्चिद्वौद्धविशेषः प्राह । १९ अश्वादिभ्यः। २० खण्डमुण्डादिस्खलक्षणान् । २१ प्रथमं खण्डमुण्डाद्यनुभवो नाम निर्विकल्पकं दर्शनं, तदनु विकल्पवानुद्वोधस्तदनु सङ्केतकालगृहीतवाच्यवाचकस्सरणं तदन्वितं वाच्यवाचकमिति योजनं, तदनु विकल्पोयं गौरिति । २२ अश्वादिभ्यः। २३ ज्ञानादभेदरूपम् । २४ जैनबौद्धयोः । २५ शाने ज्ञानस्वरूपाकारोऽपोह इति बौद्धविशेषस्याऽभिप्रायः। २६ श्रावणप्रत्यक्षम्। २७ निश्चयस्य । ८ सौगतेन। ९ पदार्थानां शानस्य । ३० बौद्धमते। ३१ खण्डमुण्डादिखव्यक्त्यपेक्षया । ३२ विजातीयव्यावृत्तिः समानपरिणामरूपसामान्यं चेति। ३३ स्वग्रन्थे । ३४ अर्थ । शाने।