Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 843
________________ सू० ६१७४] नयविवेचनम् कः पुनरत्र बहुविषयो नयः को वाल्पविषयः कश्चात्र कारणभूतः कार्यभूतो वेति चेत् ? 'पूर्वः पूर्वो बहुविषयः कारणभूतश्च परः परोल्पविपयः कार्यभूतश्च' इति ब्रूमः ! संग्रहाद्धि नैगमो बहुविषयो भावाऽभावविषयत्वात् , यथैव हि संति सङ्कल्पस्तथाऽसत्यपि, सङ्ग्रहस्तु ततोल्पविषयः सन्मात्रगोचरत्वात् , ५ तत्पूर्वकत्वाच तत्कार्यः संग्रहाव्यवहारोपि तत्पूर्वकः सद्विशेपाववोधकत्यादल्पविषय एक । व्यवहारकालत्रितयवृत्त्यर्थगोचरात् ऋजुलूत्रोणि तत्पूर्वको वर्तमानार्थगोचरतयाल्पविषय एका । कारकादिभेदेनाऽभिन्नमर्थ प्रतिपद्यमानाजुसूत्रतः तत्पूर्वकः शब्दनयोप्यल्पविषय एव तद्विपरीतार्थगोचरत्वात् । शब्द-१० नयात्पर्यायभेदेनार्थाभेदं प्रतिपद्यमानात् तैद्विपर्ययात् तत्पूर्वक समभिरूढोप्यल्पविषय एव । समभिरूढतश्च क्रियाभेदेनाऽभिन्नमर्थ प्रतिय॑तः तद्विपर्ययात् तत्पूर्वक एवम्भूतोप्यल्पविषय एवेति । नन्वते नयाः किमेकस्मिन्विपयेऽविशेषेण प्रवर्त्तन्ते, किंवा विशेषोस्तीति ? अत्रोच्यते-यत्रोत्तरोत्तरो नयोऽर्थाशे प्रवर्त्तते १५ तत्र पूर्वः पूर्वोपि नयो वर्तते एव, यथा सहस्त्रेऽष्टशती तस्यां वा पञ्चशतीत्यादौ पूर्वसंख्योत्तरसंख्यायामविरोधतो वर्तते । यत्र तु पूर्वः पूर्वो नयः प्रवर्तते तत्रोत्तरोत्तरो नयो न प्रवर्तते; पञ्च. शत्यादावऽष्टशत्यादिवत् । एवं नयार्थे प्रमाणस्यापि सांशवस्तुवेदिनो वृत्तिरविरुद्धा, न तु प्रमाणार्थे नयानां वस्त्वंशमात्रवेदि-२० नामिति । कथं पुनर्नयसप्तभङ्गयाः प्रवृत्तिरिति चेत् ? 'प्रतिपर्यायं वस्तुन्येकत्राविरोधेन विधिप्रतिषेधकल्पनायाः' इति ब्रूमः। तथाहि-सङ्कल्पमात्रग्राहिणो नैगमस्याश्रयणाद्विधिकल्पना, प्रस्थादिकं कल्पना मात्रम्-'प्रस्थादि स्यादस्ति' इति । संग्रहाश्रयणात्तु प्रतिषेधक-२५ ल्पना; न प्रस्थादि सङ्कल्पमात्रम्-प्रस्थादिसन्मात्रस्य तथाप्रतीतेरसतः प्रतीतिविरोधादिति । व्यवहाराश्रयणाद्वा द्रव्यस्य पर्यायस्य १ विद्यमाने वस्तुनि । २ अतीतेऽनागते च। ३ पर्यायभेदेन भिन्नार्थगोचरत्वादित्यर्थः । ४ प्राप्नुवतः प्रकटयतो वा। ५ उत्तरोत्तरनयविषये पूर्वपूर्वनयप्रवर्तनप्रकारेण उत्तरोत्तरसंख्यायां पूर्वपूर्वसंख्याप्रवर्तनप्रकारेण वा पञ्चशत्यादावष्टशत्याद्यऽप्रवतनप्रकारेण वा। ६ अविरोधेनेत्यभिधानात्प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनायाः, एकत्र वस्तुनीत्यभिधानादनेकवस्त्वाश्रयविधिप्रतिषेधककल्पनायाश्च सप्तभङ्गीरूपता प्रत्युक्ता । ७ विधिप्रतिषेधौ अस्तित्वनास्तित्वे । ८ संग्रहो नयः । ९ प्रस्थादित्वेन । १० गगनकुसुमवत् ।

Loading...

Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921