________________
सू० ३१५८१०] प्रत्यभिज्ञानप्रामाण्यविचारः
"न हि स्मरणतो यत्प्राक् तत् प्रत्यक्षमितीदृशम् । वचनं राजकीयं वा लौकिकं वापि विद्यते ॥१॥ न चौपि स्मरणात्पश्चादिन्द्रियत्य प्रवर्तनम् । वार्यते केनचिन्नानि नत्तदानीं दुष्यति ॥ २॥ तेनेन्द्रियार्थलम्वन्धान्प्रागृवं चापि यस्मृतेः । विज्ञानं जायते सर्व प्रत्यक्षमिति गल्यानाम् ।। ३" ।
मो० श्लो० सू० ४ श्लो० २३१-२३ अनेकदेशकालावस्थासमन्वितं सामान्यं द्रव्यादिकं च वस्त्वत्याः प्रमेयमित्यपूर्वप्रमेयसद्भावः। तदुक्तम्
"गृहीतमपि गोत्वादि स्मृतिस्पृष्टं च यद्यपि । तथापि व्यंतिरेकेण पूर्ववोधात्प्रतीयते ॥१॥ देशकालादिभेदेन तत्रास्त्यवसरो मितेः। यः पूर्वमवगतोशः स न नाम प्रतीयते ॥ २॥ इंदानीन्तनमस्तित्वं न हि पूर्वधिया गतम्।"
मी० श्लो० सू० ४ श्लो० २३२-२३४] १५ तदप्यसमीचीनम् ; प्रत्यभिज्ञानेऽक्षान्वयव्यतिरेकानुविधानस्यासिद्धेः, अन्यथा प्रथमव्यक्तिदर्शनकालेप्यस्योत्पत्तिः स्यात् । पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रवोधोत्पन्नस्मृतिसहायैमिन्द्रियं तज्जनयति; इत्यप्यसाम्प्रतम् । प्रत्यक्षस्य स्मृति निरपेक्षत्वात् । तत्सापेक्षत्वेऽपूर्वार्थसाक्षात्कारित्वाभावः स्यात् ।
२० देशकालेत्याद्यप्ययुक्तमुक्तम् : यतो देशादिभेदेनाग्यध्यक्ष चक्षुःसम्बद्धमेवार्थ प्रकाशयत्प्रतीयते । न च प्रत्यभिज्ञा तं प्रकाशयति पूर्वोत्तरविवर्त्तवत्यैकत्वविपयत्वात्तस्याः । वर्तमानश्चायं चक्षु:सम्बद्धः प्रसिद्धः।
१ ज्ञानम् । २ स्मरणानन्तरमिन्द्रियमर्थग्रहणाय न प्रवर्तते इत्युक्ते आह । ३ मरणोत्तरकालम् । ४ दुष्टं भवति । ५ राजकीयं लौकिकं वचनं न विद्यते येन । स्मरणादिन्द्रियस्य प्रवर्त्तनं वा केनचिद्वा न विचार्यते येन । इन्द्रियं वा दुष्टं न भवति येन कारणेन। ६ प्रत्यक्षस्मरणगृहीतग्राहित्वात्प्रत्यभिशानं प्रत्यक्षमप्रमाणं स्यादित्यारेकायामाह। ७ तिर्यक्सामान्यम् । ८ आदिना गुणः। ९ भेदेन । १० सरणप्रत्यक्षरूपात् । ११ कथं पूर्वबोधाद्भेदेन प्रतीयते इत्युक्ते आह । १२ अवस्थाभेदेन । १३ प्रत्यभिशानलक्षणप्रत्यक्षप्रमाणस्य । १४ प्रत्यभिज्ञानलक्षणप्रत्यक्षस्य । १५ पूर्वादिपर्यायः। १६ आद्य । १७ यसः । १८ भासः। १९ यसः। २० तासः। २१ कासः। २२ यसः। २३ बसः । २४ सन्दिग्धानकान्तिकत्वे उद्भाविते इदं वाक्यं परिहारः।