Book Title: Pramey Kamal Marttand
Author(s): Mahendramuni
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 850
________________ ६८८ प्रमेयकमलमार्तण्डे [६. नयपरि. "युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां साविकासमासते। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मः॥" [शिशुपालव० १२३ ] न विद्यते ना समवायिकारणभूतो यस्यासावऽना, "ऋण्मो ५(मो.) [जैनेन्द्रव्या० ४।२।१५३] इति कप सान्तो न भवति "सान्तो विधिरनित्यः" [ ] इति परिभाषाश्रयणात् । इनो भानुः । लषणं लट् कान्तिः-"लष् कान्तौ"[ ] इति वचनात् । लषा युक् योगो यस्यासौ लड्युक्-चन्द्रः । इनश्च लड्युक् चेनलड्युक् सूर्याचन्द्रमसौ। कुल मिव कुलं सजातीयार१०म्भकावयवसमूहः। तस्मादुद्भव आत्मलामो यस्यासौ कुलोद्भवः पृथिव्यादिकार्यद्रव्यसमूहः । 'वा' इत्यनुक्तसमुच्चये, तेनानित्यस्य गुणस्य कर्मणश्च ग्रहणम्। एषःप्रतीयमानः। अतो नाश्रयासिद्धिः। अद्भ्यो हितोऽप्यः-समुद्रादिः। निशायाः कर्म नैश्यमन्धकारादि। ताप औष्ण्यम् । स्तनतीति स्तन् मेघः। एतेषां द्वन्द्वैकवद्भावः । १५ किम्भूतः स तच्च । न विद्यते ना पुरुषो निमित्तकारणमस्येति । रटनं परिभाषणं तस्य लड् विलासः, तं जुषते सेवते इति-"जुषी प्रीतिसेवनयोः"[ ] इत्यभिधानात् । अनुरड्लड्जुत् । अत्रापि कवऽभावे निमित्तमुक्तम् । अंत्र साध्यधर्ममाह । परापरतत्त्ववित्तदन्य इति । परं पार्थिवा२० दिपरमाण्वादिकारणभूतं वस्तु, अपरं पृथिव्यादिकार्यद्रव्यम् , तयोस्तत्त्वं स्वरूपम् , तस्मिन्विद् बुद्धिर्यस्यासौ परापरतत्त्ववित्कार्यकारणविषयबुद्धिमान् पुरुष इत्यर्थः । तस्मात्परोक्तादन्यः परापरतत्त्ववित्तदन्यो बुद्धिमत्कारण इत्यर्थः। यदा नपुंसकेन सम्बन्धस्तदा परापरतत्त्ववित्तदन्यदिति व्याख्येयम् । कुत एत२५ दित्याह-अनादिरवायनीयत्वत इति । कार्यस्य हेतुरादिस्ततः प्रागेव तस्य भावात् । तस्मादन्योऽनादिः कार्यसन्दोहः । तस्य रवस्तत्प्रतिपादकं कार्यमिति वचनम् । तेनायनीयं प्रतिपाद्यं तस्य भावस्तत्त्वम् , तस्मादनादिरवायनीयत्वतः-'कार्यत्वात्' इत्यर्थः। एवं यदनादिरवायनीयं तदीर बुद्धिमत्कारणम् । तत्कला अव. ३० यवा भागा इत्यर्थः, सह कलाभिर्वर्तते इति सकला। वित् आत्म १ तिष्ठन्ति । २ नारायणस्य । ३ प्रकारणात्तपोधनोत्र नारदः । ४ सन्तोषाः । ५ समासान्त इत्यर्थः। ६ हेतोः। ७ अप्यादीनाम् । ८ पुल्लिङ्गनिर्दिष्टः सर्वः नपुंसकलिङ्गनिर्दिष्टं सर्वम्। ९ सामान्यनरः। १० धर्मिणि। ११ अबुद्धि मत्कारणात् ।

Loading...

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921