Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
एवं जीवन्मुक्तिवत् परमुक्तेरप्यत एवानुष्ठानात् सम्भावनोपपत्तेः। न चान्यत् प्रमाणं तदुपदेशस्य बाधकं, तद्विपरीतार्थव्यवस्थापकत्वाभावादिति, तदपि न रमणीयम् । तदुपदिष्टश्रद्धा. विशेषविषयपदार्थानां यथावस्थितार्थत्वाभावात् , उक्तं चस्वतोऽनुवृत्तिव्यतिवृत्तिभाजो,
भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद्,
द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ । अधिकं तु स्याद्वादमञ्जरी-स्याद्वादकल्पलता-अष्टसहस्री-सम्मतिवृत्यादावस्मत्कृतायोगव्यवच्छेदस्तुतिटीकायां वा विलोकनीयं विस्तृतत्वभयादप्रस्तुतत्वाचेह न प्रपञ्चयत इति ।
नचानादिसंसिद्धज्ञानेच्छाप्रयत्नादिमद्विहितशासनमेव श्रेयोमार्ग इति वाच्यं, तस्यैवासिद्धेः। अत्राहुर्गोतमीयाः तनुभुवनकरणादौ निमित्तकारणत्वादीश्वरस्य तदनादित्वं सिद्धमेव । न चैतदसिद्धं । तथाहि, तनुभुवनकरणादिकं विवादास्पदीभूतं बुद्धिमनिमित्तकं, कार्यत्वात् । यद्यत्कार्य तत्तबुद्धिमनिमित्तकं दृष्टं । यथा घटादिः । कार्यं चेदं तनुभुवनादिकं ततो बुद्धिमनिमित्तकम् , योऽसौ बुद्धिमान् तन्निमित्तं स ईश्वर इति प्रसिद्ध साधनं तदनादित्वं साधयत्येव । तत्सादित्वे ततः पूर्व तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्धेतुत्वाभावप्रसङ्गात् । यदि पुनस्ततः पूर्वमन्य इति परम्पराकल्पनेऽनादि

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88