Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 36
________________ ( २१ ) वात् , यदि विजातीयेष्वपि एकरचनाविशेषः स्वीक्रियते तदा बुद्धिमनिमित्तकेतरलक्षणवैजात्येऽपि एककार्यत्वस्वीकारे का क्षतिरिति नाभूत्वाभावित्वमपि विचारं सहते । नापि अक्रियादर्शिनोऽपि कृतबुद्धथुत्पादकत्वम् । तद्धि गृहीतकृतसमयस्यागृहीतकृतसमयस्य वा भवेत् । यदि गृहीतकृतसमयस्य, तदा आकाशादेरपि बुद्धिमद्धेतुकत्वं स्यात् तत्रापि खननोत्सेचनात् कृतमिति गृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्या इति चेत् , भवदीया बुद्धिर्न मिथ्येत्यत्र किं विनिगमकम् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चोभयत्रापि समानत्वात् । प्रत्यक्षेणोभयत्र कृतबुद्ध्यभावात् । क्षित्यादिकं न बुद्धिमनिमित्तकं भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्वात् गगनवदिति प्रमाणस्य साधारणत्वात् । तन्न गृहीतकृतसमयस्य कृतबुद्धयुत्पादकत्वम् । नाप्यगृहीतकृतसमयस्य तस्यासिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । नापि कारणव्यापारानुविधायित्वं, विकल्पाक्षमत्वात् , तथाहि, तत्कि कारणमात्रव्यापारानुविधायित्वं कारणविशेषव्यापारानुविधायित्वं वा । न तावत्प्रथमपक्षो युक्तः, स्वमते विरुद्धसाधनात् परमते कारणसामान्यव्यापारानुविधायित्वस्य स्वीकृतत्वेन सिद्धसाध्यताप्रसङ्गाच । नापि द्वितीयः अन्योन्याश्रयदोषभाक्त्वात् । तथाहि, सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वं सिद्धिमध्यास्ते, तत्सिद्धेः कारणविशेषसिद्धिरिति । सन्निवेशविशिष्टत्वमचेतनोपादानत्वं

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88