Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 28
________________ ( १३ ) ननु तेषां समस्तपदार्थज्ञानस्यान्त्यस्य योगाभ्यासविशेषजन्मतः सद्भावे समस्तमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखपरिक्षयात् परमनिःश्रेयससिद्धेः समस्तकारकप्रयोक्तृत्वासिद्धिः, न पुनरीश्वरस्य, सदामुक्तत्वात् सर्वदैवेश्वरत्वात् संसारिमुक्तविलक्षणत्वाच्च । न हि संसारिवदज्ञो महेश: साध्यो नापि मुक्तवत् समस्तज्ञानेश्वर्यरहित इति तस्यैव समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ सम्भाव्यत इति केचित् । तेऽपि न विचारचतुरचेतसः। तनुभुवनादीनां कार्याणां महेश्वराभावे क्वचिदभावासिद्धेर्व्यतिरेकानुपलम्भस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्यभावात् । एवं तदन्वयव्यतिरेकानुविधानस्यासिद्धौ व्यापकानुलम्भः प्रसिद्ध एव पक्षस्य बाधक इति प्रकृतानुमानस्य बाधितपक्षकत्वात् कालात्ययापदिष्टहेतुकत्वाच्च न बुद्धिमन्निमित्तत्वसाधनं साधीयः । तथा बुद्धिमनिमित्तकं इति साध्यनिर्देशे 'बुद्धिमत्' इति मतुबर्थस्य साध्यधर्मविशेषस्यानुपपत्तिः, तज्ज्ञानस्य ततो व्यतिरेके अकार्यत्वे च तस्यैव तद्गुणो नाकाशादेरिति व्यवस्थापयितुमशक्यत्वात् । समवायो व्यवस्थाकारीति चेत्, न, तस्यापि पूर्वोक्तदोषानतिक्रमात् । अथेश्वरात्मकार्यत्वाद् बुद्धेरीश्वरगुणत्वं तस्याः, किन्तु नान्यगुणत्वमिति चेत् , कुतो निश्चितमेतत् , तदन्वयाचुविधानादिति चेत् , न, आकाशादावपि तदन्वयानुविधानस्य सत्त्वात् । ननु खादावन्वयस्य समानत्वेऽपि व्यतिरेकासम्भवात् न तत्कार्य

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88