Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( ५९ )
त्पर्यात्मा, सम्यग् व्यासङ्गपरिहारेण, मृग्य: उन्नयो, हितैषिणा मुमुक्षुणा, न्यायशास्त्राविरोधेन युक्त्याऽऽगमबाधा यथा न स्यात् तथा, न तु यथाश्रुतग्रहणमात्रेणान्ध्ये मन्जनीयं मनः, अन्यथा “ग्रावाणः प्लवन्ते" इत्यादिश्रुतिश्रवणेन गगनमेवावलोकनीयं स्यात् । अत्र पराभियुक्तसम्मतिमाह-यथा मनुरपि, अदः वक्ष्यमाणम् , आह ॥ ७॥ आर्ष च वेदादि । धर्मशास्त्रं च पुराणादि । 'आर्ष धर्मोपदेशं च' इति क्वचित् पाठः। तत्राप्ययमेवार्थ:-आर्ष मन्वादिवाक्यं, धर्मजनक उपदेशः-धर्मोपदेशः, "धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्तं वेदं इत्यन्ये, वेदशास्त्राविरोधिना परस्परं तदुभयाविरोधिना, तर्केण यः अनुसन्धत्ते तदर्थमनुस्मरति, स धर्म वेद जानाति, नेतर ऊहरहितः ॥८॥ तस्मादीश्वरकर्तृत्वप्रतिपादकपरागमस्याप्ययमेवाशयो युक्तः, इति सम्यग्दृष्टिपरिगृहीतत्वेन तत्प्रामाण्याभ्युपगमादित्यलं, अत एवोक्तम् ॥" यस्य सर्वत्र समता। नयेषु तनयेष्विव ।। तस्यानेकान्तवादस्य । क न्यूनाधिकशेमुषी ॥ १॥ इति न जगत्कर्तृत्वेनेशस्य तत्कर्तृत्वेनागमस्य प्रामाण्यम् , उक्तरीत्या जगत्कत्वस्याघटमानत्वात् , किन्तु वीतरागवचनत्वेनैव ॥ तथा चोक्तम् ॥
शासनात्राणशक्तेश्व, बुधैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य, तच नान्यस्य कस्यचित् ॥१॥
अत्र केचित् "पुरुषस्य प्रान्तिधर्मत्वेन वीतरागस्यापि

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88