Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( ५७ ) इति ॥अत एव "भगवन्तमुद्दिश्यारोग्यादिप्रार्थनासार्थक्यानर्थक्यचिन्तायां तु भाज्यमेतत्, चतुर्थभाषारूपत्वात्" इति भमवता श्रीहरिभद्रसूरिणा ललितविस्तरायामुक्तम् । अप्रार्थनीये कर्तरि प्रार्थनाया विधिपालनबलेन शुभाध्यवसायमात्रफलत्वादिति निगर्वः ॥ २ ॥ तदनासेवनादितितदुक्तव्रताऽपालनादेव, यत्-यस्मात् कारणात्, तत्त्वतःपरमार्थतः, संसारोऽपि जीवस्य भवति, अविरतिमूलत्वात् तस्येति भावः, तेन हेतुना, तस्यापि संसारस्यापि, कर्तृत्वं कल्प्यमानम्--स्वहेतुक्रियाविरुद्धविधिबोधितोपासनाकत्वपरेण कर्तृत्वपदेन बोध्यमानम् , न दुष्यति “अमुल्यग्ने करिशतम्" इत्यादिवद् यथा कथञ्चिदुपचारेण व्यवहारनिर्वाहादिति ॥३॥ नन्वस्या कल्पनायां को गुणः ? इत्याह-कर्तेतिअयं ईश्वरः कर्ता इति हेतोः, तद्वाक्ये-ईश्वरवाक्ये सिद्धान्ते, " अयं कर्ता" इति तद्वाक्यप्रसिद्धवाक्ये वा, यतः केषाश्चित्-तथाविधभद्रकविनेयानाम् , आदरः स्वरसवाहिश्रद्धानात्मा भवति, अतस्तदानुगुण्येन तथाविधविनेयश्रद्धाभिवृद्धये, तस्य परमात्मनः, कर्तृत्वदेशना-कर्तृत्वोपदेशः । यतः श्रोतभावाभिवृद्ध्यर्थो हि गुरोरुपदेशः, सा च कल्पितोदाहरणेनापि निर्वाह्यते किं पुनरुपचारेणेति ॥ ४ ॥
ननु मुख्यकल्पनाबाधे सति एवोपचारकल्पना इति साक्षादपि कर्तृत्वं कल्पयति। परमैश्वर्ययुक्तत्वात् , निश्चयतो घनाऽऽवृतस्यापि रवेः प्रकाशस्वभावत्ववत् , कर्मावृतस्याप्या

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88