Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 73
________________ ( ५८ ) त्मनः शुद्धबुद्धकस्वभावत्वेनोत्कृष्टकेवलज्ञानाधतिशयशालित्वात् , आत्मैव जीव एव वा ईश्वरो मतः-ईश्वरपदेन सङ्केतितः। स च जीवश्च, कर्ता साक्षात् , इति हेतोः निर्दोषउपचारेणाप्यकलङ्कितः कर्तृवादः ईश्वरकर्तृत्वोपदेशः, व्य. वस्थितः प्रमाणसिद्धः, अत एव “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैावाभूमी जनयन्देव एकः॥" इति श्रुतिरप्युपपद्यते, जीवस्य निश्चयतः सर्वज्ञत्वात् , अन्यथा रागाद्यावरणविलये तदाविर्भावानुपपत्तेः। "उत्तमपुरुषस्त्वन्यः। परमात्मेत्युदाहृतः॥ यो लोकत्रयमाविश्य, बि. भर्त्यव्यय ईश्वरः॥१॥" इत्यादिकमप्युपपद्यते, आवृतस्वरूपादनावृतस्वरूपस्य भिन्नत्वात् , चैतन्यात्मकमहासामान्येनलोकत्रयावेशाद् ग्राह्याकारक्रोडीकृतत्वेन तद्भरणाच्च, इत्यादिरीत्या यथागमं पराभिप्राय उपपादनीयः ॥५॥ यतः-शास्त्रकाराः प्रायः-लोकायतादीन् परलोकाऽभीरून् विहाय, महात्मानः धर्माभिमुखाः, भवे संसारे, वीतस्पृहाः श्लोकमानख्यातिधनलिप्सादिरहिताः, सत्त्वार्थसम्प्रवृत्ताश्च यथाबोधं परोपकारप्रवृत्ताच, अन्यथेशप्रवृत्त्ययोगात् , ततः कथं तेऽयुक्तभाषिणः ज्ञात्वा विरुद्धभाषिणः ? । विरोधः खलु जल-ज्वलनयोरिव परोपकारित्व-विरुद्धभाषित्वयोरिति भावः ॥६॥ ततस्तेषां महात्मनां अविरुद्धभाषित्वेन तेषां परोपकारार्थप्रवृत्तानां शास्त्रकाराणां, अभिप्रायः शब्दता

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88